________________
प्रथम सर्ग -
में गुणों की गणना करते हैं। यही क्रम आज तक चल रहा है, परन्तु आज तक प्रभु के गुणों की गणना पूर्ण नहीं हुई ] ॥ २६ ॥ ।
यैस्तत्तुल्यं पुनरपि परं रूपमाप्नोति सत्तां नूनं नान्तर्भुवनमणवः सन्ति ते क्वापि केऽपि । ते नो विज्ञा अपि गुणगणः स्तूयते यैरगण्यः कार कार नवनवनवान वास्तवांस्तस्य भर्तुः ॥२७॥
यैस्तत्तुल्यं ० हे जलधर ! नूनं निश्चितं अन्तभुवनं त्रिभुवनमध्ये । ते अणवः परमाणवः क्वापि कस्मिन्नपिप्रदेशे केऽपि कियन्मात्रा सन्ति यैः परमाणुभिः पुनरपि तत्तुल्यं तस्यश्रीनेमिनस्तुल्यं परं अन्यत्रूपं सत्तां विद्यमानतां आप्नोति प्राप्नोति । हे मेघ ते विज्ञा अपि विद्वांसोऽपि नो सन्ति यै: विद्वद्भुितस्य भतु: श्रीनेमिनः गणगणः स्तूयते वर्ण्यते । किरूपो गुणगणः-अगण्यः गणयितुमशक्यः । किंकृत्वा-- नवनवनवान् अतिनूतनस्तवान् कारंकारं कृत्वाकृत्वा । किरूपान्--नवनवनवान् वास्तवान् सत्यार्थान् ॥ २७ ।।
श्रीनेमि के रूप और गुणों की अनन्यता का कथन है- निश्चित ही इस संसार में) वे परमाणु कहीं भी अल्प मात्रा में भी अवशिष्ट नहीं हैं, जिनसे उन ( भगवान् ) के सदृश अन्य रूप का पुनः निर्माण हो सके और न ही वैसे पण्डितगण ही ( इस संसार में हैं जो प्रभु के असंख्य वास्तविक गुणसमूहों के सम्बन्ध में नवीन-नवीन स्तुतियों की रचना करें जिससे प्रभु की स्तुति की जावे ॥ २७ ॥
तत्सौभाग्यं तदतुलतरस्तज्जनानन्दि रूपं तल्लावण्यं तदपरिमितं ज्ञानमन्यानवापम् । सा मैत्री सा धृतिरविचला ताः कृपाक्षान्तिकान्तिप्रज्ञावाचः परमपि शुभं लभ्यमत्रैव लभ्यम् ।।२८॥ तत्सौभाग्यं • हे जलधर ! तत् सर्वोत्कृष्ट सौभाग्यं सुभगतात् अतुलतरः निरुपमबलं तत्जनानन्दि जनानन्दनशीलरूपं । तत्लावण्यं लवणिमा। तत् अपरि मितं असंख्यातं ज्ञानं । किरूपं ज्ञानं--अन्यानवापं न विद्यते अवापः प्राप्तिर्यस्य तत् अनवापं । अन्यस्य मूर्खस्य अनवापं अन्यानवापं मूर्खदुरायमित्यर्थः : सा मंत्री सा धृतिः सन्तोषः । किरूपा धृतिः--अविचला निश्चला ताः कृपाक्षान्तिप्रज्ञावाचः । हे मेघ परमपि अन्यदपि यत् शुभं रमणीयंवस्तु लभ्यं प्राप्यं वर्तते । तत् सर्व अत्रैवश्रीनेमिनाथे एव लभ्यं प्राप्तुं युक्तं ।। २८ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org