________________
प्रथम सर्ग: तीनों लोकों में अन्धकार समूह का विनाश होकर प्रकाश फैल गया। नरक वासियों ने दुःख के समूह में भी अपार सुख का अनुभव किया जैसे खार जल वाले समुद्र में रहने वाले हंस स्वाति के जल को पाकर सुखी होते हैं ॥१७॥
भक्तिप्रह्वा भवनपतयो विशिनो व्यन्तरेन्द्रा द्वाविंशच्चोपनवतिविषाधीशितारो रवीन्दू । सङ्गत्य स्वःशिखरिशिखरे ते चतुष्षयष्टिरिन्द्राः जन्मस्नात्रोत्सवमतिहरि स्वामिनो यस्य तेनुः ॥१८॥ भक्तिप्रह' • हे मेघ ते प्रसिद्धाः चतुःषष्टिः इन्द्राः सङ्गत्य एकत्रमिलित्वा स्वःशिखरिशिखरे मेरुपर्वतश्रृंगे अतिहरि हरिकृतं इन्द्र कृतं यथा ज्ञायते तथा यस्य स्वामिनः श्रीनेमेः जन्मस्नात्रोत्सवं तेनुः चक्रुः । ते के-विशिनः विंशतिभुवनपतयः, द्वात्रिंशत्व्यन्तरेन्द्राः च पुनः । उपनव दश तिविषाधीशितारः स्वर्गस्वामिनः वैमानि केन्द्राः इत्यर्थः । रवीन्दू सूर्यचन्द्रमसौ। कीदृशाः ते-भक्तिप्रवाः भक्त्याप्रह्वा नम्रीभूता ॥१८॥
भक्ति से विनम्र बीस भुवनपति, तैंतीस व्यन्तरेन्द्र एवं दश स्वर्णाधीश तथा सूर्य एव चन्द्रमा इस प्रकार चौसठ इन्होंने श्रीनेमिनाथ के जन्मोत्सव को मेरु पर्वत शिखर पर एकत्र होकर इन्द्रोचित समारोह के साथ मनाया ॥१८॥
उच्चस्थानं दुदुवुरिव यं द्रष्टुकामा ग्रहास्ते स्वस्यामान्तः करणकरणैः काममाशाः प्रसेदुः । रत्नस्वर्णप्रकरममराः सौधपूरं त्ववर्षन् । विश्वे लोकाः प्रमदमदधुयस्य पुण्येऽवतारे ॥१९॥
उच्चस्थानं ० हे मेघ यस्य भगवतः श्रीनेमेः पुण्ये पवित्रे अवतारे जन्मनि ते प्रसिद्धाः ग्रहाः आदित्याद्याः उच्चस्थानं दुदुवुः जग्मुः । उत्प्रेक्ष्यते-यं भगवन्तं द्रष्टुकामा इव । अन्योऽपि यः किमपि द्रष्टुकामो भवति स उच्चस्थानमाश्रयति हे जलधर ! आशाः दिशः स्वस्य गोत्रिणः अन्तःकरणकरण: मनः इन्द्रियः अमा सह कामं अतिशयेन प्रसेदुः प्रसन्नीबभूवुः । तु पुनः अमराः देवाः रत्नस्वर्णप्रकरं सोधपूरं नृपमन्दिरपूरप्रमाणं अवर्षन् विवृष्ट । विश्वे जगति लोकाः प्रमुदं हर्ष अदधुः धारयामासुः । यस्य पुण्ये अवतारे इति सर्वत्र योज्यम् ॥१९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org