SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ प्रथम सर्ग नीलीनीले शितिलपनयन् वर्षयत्यश्रुवर्षन् गर्जत्यस्मिन् पटु कटु रटन् विद्ययत्यौषण्यमिर्यन् । वर्षास्वेवं प्रभवति शुचे विप्रलब्धोऽम्बुवाहे वामावर्गः प्रकृतिकुहनः स्पर्धतेऽनेन युक्तम् ॥६॥ नोलोनीले० हे लोकाः ! वामावर्गः श्रीजनः अनेन जलदेन सह युक्तं युक्तिमत् स्पर्द्धते स्पर्द्धा कुरुते । क्व सति-वर्षयति* वर्षाकृतौ अम्बुवाहे मेघे एवं वक्ष्यमाणप्रकारेण शुचे शोकाय प्रभवति सति समर्थों भवति सति । किरूपो वामावर्ग:विप्रलम्धो वियोगवान् तथा प्रकृतिकुहनः स्वभावेन ईष्यालुः वामावर्गः । कि कुर्वन्अस्मिन् अम्बुवाहे नीलीनीले सति नीलीगुलिका तद्वत् नीले कृष्णे सति । शितिलपनयन् कृष्णमुखं कुर्वन् । अस्मिन् अम्बुवाहे वर्षयतिसति वृष्टि कुर्वतिसति अश्रुवर्षन् अश्रु मुञ्चन् । अस्मिन् अम्बुवाहे गर्जति सति पटु प्रकट कटु कर्णदुःखसहां यथा भवति तथा रटन् विलपन् । अस्मिन् अम्बुवाहे विद्ययति सति विद्युतं कुर्वतिसति औष्ण्यं उष्णत्वं इर्यन् प्राप्नुवन् ॥ ६ ॥ __ वर्षाकाल में स्वभाव से ईर्ष्यालु विरहिणी स्त्रियाँ अपने शोक को उत्पन्न करने वाले मेघ से जो ईर्ष्या करती हैं, वह ठीक ही है। क्योंकि) मेघ के नीलतुल्य श्यामवर्ण वाला होने पर वे (विरहिणी स्त्रियाँ) भी मुख को श्याम बना लेती हैं (अर्थात् उनका मुख मलिन होने से श्यामवर्ण हो जाता है ); जब वह (मेघ) बरसता है तब वे (विरहिणी स्त्रियाँ) भी अश्रु बरसाती हैं; जब वह (मेघ) गरजता है तो विरहिणी स्त्रियाँ) चातुर्यपूर्ण कटु-विलाप करती हैं और जब वह (मेघ) बिजली चमकाता है तो वे (विरहिणी स्त्रियाँ) भी उष्णनिःश्वास छोड़ती हैं ।। ६ ॥ हेतोः कस्मादहिरिव तदाऽऽसज्जिनीमप्यमुञ्चन्मां निर्मोकत्वचमिव लघु ज्ञोऽप्यसौ तन्न जाने यद्वा देवे दधति विमुखीभावमाप्तोऽप्यमित्रत्तर्णस्य स्यात्किमु नियमने मातृजङ्घा न कोलः ॥७॥ हेतोः कस्मा० हे लोकाः ! अहं तत् न जाने यत् असो श्रीनेमिः जोऽपि सन् विचक्षणोऽपि सन् अहिरिव सर्पइव मां निर्मोकत्वचमिव कुञ्चलिकामिव कस्मात् हेतोः अमुञ्चत् । किंरूपां मां-तदाऽऽसञ्जिनीमपि तं श्रीनेमिनाथं आसञ्जतीत्येवंशीला तदासञ्जिनी तां तदालिङ्गनतत्परामित्यर्थः तथा लघु लघ्वीं नवयौवनत्वात् । किरूपां निर्मोकत्वचं-तदासञ्जिनों सर्पशरीरसङ्गिनी तथा लघु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy