________________
जैनमेघदूतम् अत्युच्चधामारुरुक्षुः सन् अतिशयेन उच्चम् अत्युच्चं धामं मोक्ष-लक्षणं-गृहं तत् आरुरुक्षुः आरोढुम्-इच्छन् । रेवतं रैवतक-नामानं-गिरिं स्वीचकार अंगीचकार । किरूपं रैवतम्-पुण्यं पवित्रं हिंस्र जीव-अभावात् । पुनः किंरूपम्-पृथ्वीधरवरं पृथ्वीधराणां मेरु-मानुष-उत्तराणां मध्ये वरः श्रेष्ठः पृथ्वी-धर-वरः, सञ्जात बहुकल्याणकरत्वात् । अन्योऽपि-उच्च-स्थानम्-आरोढुम्-इच्छन् निःश्रेणि-आदि अंगीकरोति; अथ श्लेष-अर्थः ।
अन्यो–अपि-अत्यन्त-धीमान् कः स्वरम् आत्मा एनोवृत्ति त्यजति । किंरूपाम् एनोवत्तिम-चित्कान्तां चित्-ज्ञानं कं-सौख्यं तयोः-अन्तो विनाशो यस्याः सा ताम्, सा-अपि दानं दत्त्वा पुण्यं स्वीकरोति । किरूपं पुण्यम्-पृथ्वीधरेषु शेष-कूर्मआदिषु वरं श्रेष्ठम् । पुण्याधारत्वात्-तेषाम् ॥१॥
तीनों लोकों के उपदेशक तथा अत्यन्त बुद्धिमान् किसी (श्रीनेमिनाथ) ने, चिदानन्द को पाने की इच्छा से सभी पाप-व्यापारों को मूल कारण कान्ता (राजीमती) को त्याग दिया । तदनन्तर सुरतरु के सदृश (सम्पत्ति का) वितरण करके (दान देकर) अत्युच्च पद पर आरोहण के इच्छुक बनकर पर्वतश्रेष्ठ पवित्र रैवत को स्वीकार किया ॥१॥
दीक्षां तस्मिन्निव नवगुणां सैषणां चापयष्टि प्रद्युम्नाद्यामभिरिपुचमूमात्तवत्येकवीरे । तद्भक्तेतिच्छलितजगता क्लिश्यमाना निकामं कामेनाशु प्रियविरहिता भोजकन्या मुमूर्छ ॥२॥ दीक्षा तस्मिन् ० भोजकन्या राजीमती आशु शीघ्रं मुमूर्छ मूर्छा प्राप । क्वसति-तस्मिन् एकवीरे श्रीनेमिनाथे प्रद्युम्नाधां कन्दर्पमुख्यां रिपुचमू अभि वैरिसेनांप्रति चापयष्टिमिव धनुर्यष्टिमिव दीक्षाम् आत्तवति सति गृहीतवति सति । किंरूपा दीक्षा-नवाः शीलसन्तोषादयो-गुणाः यत्र सा ताम् । तथा सह एषणया आहारशुद्धया वर्तत इति सैषणा ताम् ।
अन्योऽपि किल रिपुचमू प्रति चापयष्टिं गृह्णाति । किंरूपां रिपुचमुं प्रद्युम्नाद्यां प्रकृष्टं द्युम्नं बलं विद्यते येषां ते। प्रद्युतेयेषां ते । प्रद्युम्नाः बलवन्तः। प्रद्युम्ना आद्या यस्यां सा ताम् । किंरूपां चापयष्टि-नवगुणा नवो नूतनो गुणः प्रत्यञ्चा लक्षणो यत्र सा ताम् । तथा सैषणा सह एषणेन नाराचनाम्नाबाणेन वर्तत इति सैषणां ताम् । कीदृशी भोजकन्या-तद्भक्ता तस्मिन्श्रीनेमिनाथे भक्ता इति हेतोः कामेन निकामं अतिशयेन क्लिश्यमाना पीडमाना प्रियविरहिता-भत्तवियुक्ता । कीदृशेन कामेनछलितं जगद् येन स तेन ॥२॥
उन अद्वितीय वीर श्रीनेमि के द्वारा अपनी उस शत्रुसेना (काम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org