________________
॥ श्रीः॥ श्रीमहीमेरुगणि कृता बालावबोधवृत्तिः शस्तानन्तमहोदयाप्तिविततोवानेयागप्रियः, सद्ब्रह्माचरणप्रभूतमहिमा निःशेष शाम्यद्रजाः। विश्वेसंवर भासरोजनमनः प्रीतिप्रदानप्रभुः, श्रीनेमि विनां तनोतु घनवत् शस्यश्रियं सर्वदा ॥१।। सूत्रव्याकरणादिशास्त्रकरणाद् वृह्यन्ति ये नित्यशः, सम्यग् ये पुरुषोत्तमन्ति च गुणश्रेणिश्रितत्त्वादिह । साध्वैश्वर्यमहाव्रतास्येदतययै च ईश्वरन्ति स्फुटं, ये विश्वे सुचिरं जयन्तु दुखः श्रीमेरुतुङ्गाभिधाः ॥२॥ श्रीमद्-अचलगच्छेश-मेरुतुङ्गाख्य-सूरिभिः । कृतस्य मेघदूतस्य महाकाव्यस्य सन्मतेः ॥३॥ व्यासं विहाय सक्षेपात् सद्गुरुणां प्रसादतः । मया वृत्तिविधीयेत शब्दमात्रार्थवाचिका ॥४॥
प्रथम सर्ग तस्य च आद्यम् इदं पद्यम्
कश्चित्कान्तामविषयसुखानीच्छुरत्यन्तधीमानेनोवृत्ति त्रिभुवनगुरुः स्वैरमुज्झाञ्चकार । दानं दत्त्वासुरतरुरिवात्युच्चधामारुरुक्षुः
पुण्यं पृथ्वीधरवरमथो रैवतं स्वीचकार ॥१॥ कश्चित्कान्तेत्यादि • कश्चित् लक्ष्य स्वरूपो भगवान् स्वैरं स्वेच्छया न तु परोपदेशेन कान्तां पत्नीम् उज्झाञ्चकार तत्याज । किंरूपो भगवान्-अविषयसुखानीच्छुः विषय-रहित-सुखानि-वाञ्छन्, तथा अत्यन्तधीमान् अतिशयेन बुद्धिमान्, तथा त्रिभुवनगुरुः धर्माधर्म-कथकः । किरूपां कान्ताम्-एनोवृत्तिम् एनसः पापस्य वृत्तिः एनोवृत्तिः ताम्, अथवा एनोरूपा वृत्तिः व्यापारो यस्याः सकाशात् सा ताम् । अथ कान्ता-त्यागानन्तरम्-सुरतरुरिव कल्प-वृक्ष इव दानं दत्त्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org