________________
नेमिदूतम्
[ ४१
व्याप्त करने वाले शरीर से राक्षसों के स्वामी बलि का ( सर्वस्व जीतकर उसका ) निवास-स्थान पाताल में दिया, इस प्रकार वामन-बलि की कथाओं के जानकार लोग दूसरे देश से आए हुए बन्धुओं का जहाँ पर मनोविनोद करते हैं।
टिप्पणी - अभिज्ञः-'अभि जानातीति' इस विग्रह में 'अभि' पूर्वक ज्ञानार्थक 'ज्ञा' धातु से 'आतश्चोपसर्गे सूत्र से 'क' प्रत्यय होकर 'अभिज्ञः' रूप बनता है ।
तामासाद्य प्रवरनगरी विश्रुतां सन्निवासं,
कुर्याः पौरन वर ! विहितानेकपूजोपहारः। आस्तीर्णान्तविमलशयनेष्वग्रसौधेषु कामं,
नीत्वा खेदं ललितवनितापादरागाङ्कितेषु ॥ ३६ ॥ अन्वयः - ( हे ) नृवर ! ताम्, विश्रुताम्, प्रवरनगरीम्, आसाद्य, पौरेः, विहितानेकपूजोपहारः, आस्तीर्णान्त विमल शयनेषु, ललितवनितापादरागाङ्कितेषु, अग्रसौधेषु, खेदम्, कामम्, नीत्वा, सन्निवासम्, कुर्याः ।।
तामासाद्येति । नृवर ! तां विश्रुतां प्रवरनगरी हे नृपश्रेष्ठ ! त्वं पूर्वोक्तां विख्यातां प्रधानपुरीम्, आसाद्य प्राप्य । पौरैः विहितानेकपूजोपहारः नगरवासिभिः कृतविविधपूजोपहारः । आस्तीर्णान्तविमलशयनेषु- आस्तीर्णानिवासोभिः संवृतानि अन्तर्मध्ये विमलानि शयनानि-शय्या येषु तानि तेषु । ललितवनितापादरागाङ्कितेषु सुन्दराङ्गनाचरणलाक्षारुचि-चिह्नितेषु । अग्रसौधेषु खेदं कामं नीत्वा अट्टालिकासु श्रमं स्वेच्छया अपनीय, मार्गपरिश्रम दुरीकुर्वन् इति भावः । सन्निवासं अधिवासं कुर्याः [ विधिलिङ्ग मध्यम पुरुष एकवचन ] कुरु ॥ ३६ ॥
शब्दार्थः - नृवर-हे नृपश्रेष्ठ !, तां विश्रुतां-उस विख्यात, प्रवरनगरीम्-प्रधान नगरी को, आसाद्य~ प्राप्त करके, पौरैः-नगरवासियों द्वारा, विहितानेकपूजोपहारः-किये गए अनेक प्रकार के पूजोपहार, आस्तीर्णान्तविमलशयनेषु-वस्त्रों द्वारा संवत निर्मल शय्या पर, ललितवनितापादरागाङ्कितेषु-सुन्दर स्त्रियों के पैरों में लगे महावर के चिह्न से चिह्नित,
१. 'पूजोपहारः' स्थाने 'पूजोपचाराः' इति पाठान्तरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org