________________
१६ ]
नेमिदूतम् टिप्पणी- चिरविरहजं मुञ्चतो वाष्पमुष्णम्-बहुत दिनों के बाद मिलन होने पर मित्रों के आँखों से आंसू गिरना स्वाभाविक है। व्यक्तिः-'वि' उपसर्ग पूर्वक 'अज्' धातु से भाव में 'क्तिन' प्रत्यय ।। वन्यहारा धृतमुनिजनाऽऽचारसाराः सदारा,
यां नाथान्तेवयसि सुधियः क्षत्रियाः संश्रयन्ते । कि तारुण्ये गिरिवनभुवं सेवसे तां तपोभिः,
क्षीणः क्षीणः परिलघुपयः स्रोतसां चोपभुज्य ॥ १३ ॥
अन्वयः --- ( हे ) नाथ ! सुधियः, क्षत्रियाः, अन्तेवयसि, वन्यहाराः, मुनिजनाऽऽचारसाराः, धृतः, सदारा, यां गिरिवनभुवम्, संश्रयन्ते, तां ( त्वं ) तारुण्ये, तपोभिः, क्षीणः क्षीणः ( सन् ), स्रोतसां, परिलघुपयः, च उपभुज्य, किम्, सेवसे ।
वन्यहारेति । नाथ ! सुधियः क्षत्रियाः अन्वेवयसि परिणतबुद्धयः क्षत्रियाः वृद्धावस्थायाम् । वन्यहारा वने साधवो वन्या-ब्रीह्यादयस्तेषामाहारोभक्षणं येषां ते वन्यहाराः इत्यर्थः । मुनिजनाऽऽचारसाराः धृतः मुनिजनानां प्रधानक्रियाविशेषाम् अङ्गीकृतः । सदारा यां गिरिवनभुवं संश्रयन्ते सपत्नीकः गिरिवनवसुधाम् आश्रयन्ति । तां अद्रिकाननपृथिवीम् । तारुण्ये तपोभिः त्वं युवावस्थायां तपोभिः । क्षीणः क्षीण: स्रोतसां भूयानल्पशरीरः सन् पर्वतनदीप्रवाहाणाम् । परिलघुपयश्च उपभुज्य गौरवदोषहीनं जलञ्च पीत्वा । किं सेवसे किमर्थं सेवसे, एतद्वयस्येतत्कर्मणोऽनुचितमिति भावः ॥ १३ ॥
शब्दार्थः - नाथ-स्वामी, सुधियः -परिपक्व बुद्धि वाले, क्षत्रियाः-- क्षत्रिय ( राजा.) लोग, अन्तेवयसि-वृद्धावस्था में, वन्यहारा:-वन के कन्द-मूल को खाने वाले, मुनिजनाऽऽचारसारा:-मुनिजनों के प्रधानक्रिया विशेष, धृतः-ग्रहण करके ( धारण करके ), याम्-जिस, गिरिवनभुवम्पर्वतीय जंगलीय पृथ्वी को, सदाराः-पत्नी के साथ, संश्रयन्ते-आश्रय लेते हैं, ताम्-उसको, तारुण्ये-युवावस्था में, तपोभिः-तपस्या के द्वारा, क्षीण:-क्षीणः-बार-बार दुबला होकर, स्रोतसाम् – पर्वतीय नदियों के, परिलघु-हल्के, पयश्च-जल को, उपभुज्य-पीकर, किम्-क्या, सेवसेसेवा करते ( निवास करते ) हो ।
Jain Education International
For Private & Personal Use Only .
www.jainelibrary.org