________________
नेमिदूतम्
[ १५
तन्मत्वैवं व्रज निजपुरों द्वारिकां सत्सहाय
र्गोविन्दाद्यः सममनुभवासाद्य राज्यं सुखानि । जाते तेषां यदुवर ! पुनः सङ्गमे भाविनी ते, स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो वाष्पमुष्णम् ॥ १२ ॥
अन्वयः – (हे ) यदुवर ! तत् एवम् मत्वा, निजद्वारिकाम्, पुरीम्, व्रज (तत्र ) गोविन्दाद्यैः, सत्सहायैः, समम्, राज्यम्, आसाद्य, सुखानि, अनुभव, पुनः, तेषां, सङ्गमे, जाते, भाविनी ते चिरविरहजम्, उष्णम्, वाष्पम्, मुञ्चतः स्नेहव्यक्तिः ।
तन्मत्वैवमिति । यदुवर ! तन्मत्वैवं निजपुरी द्वारिका हे यदुश्रेष्ठ प्राणनाथ ! अत एव मद्वचनमवधार्य स्वीयद्वारिका नगरीम्, वज्र गच्छ । गोविन्दाद्यैः सत्सहायः विष्णुप्रमुखैः सदनुचरैः । समं राज्यमासाद्य साधू राष्ट्र प्राप्य । सुखानि अनुभव विषयसौख्यानि आस्वादय । पुनः तेषां सङ्गमे जाते पुनः विष्णुप्रभृतीनां संयोगे प्राप्ते सति । भाविनी ते चिरविरहजं नेमिनासंयोगभावयुक्ता तव दीर्घकालिक-विरहजन्यम् । उष्णं वाष्पं मुञ्चतः स्नेव्यक्तिः तप्तम् अश्रुः त्यजतः प्रेमप्राकट्यं करिष्यन्ति इत्यर्थः ॥ १२ ॥
शब्दार्थः- यदुवर-हे यदुश्रेष्ठ ! तत्-अतएव, एवम्-ऐसा, मत्वामान करके, निज-अपनी, द्वारिकाम्--द्वारिका को, पुरीम्--नगरी को, ब्रज-जाओ; गोविन्दाद्यैः-विष्णुप्रभृति, सत्सहायैः-सच्चे अनुचरों के, समम्-साथ, राज्यम्-राज्य को, आसाद्य-प्राप्त करके, सुखानि-विषय सुखों को, अनुभव-आस्वादन करो, पुनः-फिर, तेषाम्-उनके, सङ्गमेसंयोग में, जाते-प्राप्त होने पर, भाविनी-नेमि संयोग भाव से युक्त, तेतुम्हारे, चिरविरहजम्-बहुत दिनों के वियोग से उत्पन्न, उष्णम्-गर्म, वाष्पम्-आँसू, मुञ्चतः-छोड़ते हुए, स्नेहव्यक्तिः-प्रेमाभिव्यक्ति ।
अर्थः - हे यदुश्रेष्ठ ! मेरे वचन को मानकर अपनी द्वारिका नगरी को चलो तथा वहाँ विष्णु प्रभृति सच्चे अनुचरों के साथ राज्य को प्राप्त करके विषय सुखों का आस्वादन करो। उनके साथ पुनः संयोग होने पर, नेमिसंयोग भाव से युक्त ( वे लोग ) तुम्हारे बहुत दिनों के वियोग से उत्पन्न गर्म आँसू छोड़ते हुए प्रेमाभिव्यक्ति करेंगे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org