________________
नेमिदूतम्
शैलप्रस्थे
जलदतमसाऽऽच्छादिताशाम्बरेण,
स्निग्धश्या मांजनचयरुचाऽऽसादिताभिन्नभावाः । यामिन्योऽमूविहित वसतेर्वासरा चाजनेऽस्मिन्, संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ ११ ॥
१४ ]
अन्वयः ( हे नाथ ! ) अस्मिन्, अजने शैलप्रस्थे, विहितवसते: स्निग्धश्यामांजनचयरुचा, जलदतमसा, आच्छादिता आशाम्बरेण, अमू या - मिन्यर्वासराः, सादिताभिन्नभावाः, च, नभसि राजहंसाः भवतः, सहायाः, संपत्स्यन्ते ।
,
शैलप्रस्थेति । अस्मिन् अजने शैलप्रस्थे हे नाथ! अस्मिन् जनरहिते पर्वते विहितवसतेः कृतनिवासस्य श्रावणमासे इति शेषः । स्निग्धश्यामांजनचयरुचा सान्द्रकृष्णजालकान्तिरिव, जलदतमसा मेघान्धकारेण । आशाम्बरेण दिगाकाशेन । अमू यामिन्यः वासराश्च आच्छादिता सादिताभिन्नभावा: आवृते सति प्राप्तकत्वभावाः । निशः अह्नश्च विशेषपरिज्ञानं न भवितुं शक्नोति इति भावः । नभसि आकाशे । राजहंसाः श्रेष्ठहंसाः भवतः सहायाः नेमेः अनुगामिनः, अनुचरारित्यर्थः । सम्पत्स्यन्ते भविष्यन्ति, रात्रिरह्नश्च विशेष - ज्ञानस्य विषयो भवति श्रेष्ठहंसाः इति भावः । अत एव पर्वतोऽयं भवतः निवासयोग्यः नास्ति ॥ ११ ॥
1
3
शब्दार्थः अस्मिन् — इस अजने — जनरहित, शैलप्रस्थे - पर्वत पर, विहितवसते: - निवास करने से, स्निग्धश्यामांजनचयरुचा - गाढकाले अञ्जन की कान्ति सदृश, जलदतमसा - मेघान्धकार से आच्छादिता - आच्छादित ( व्याप्त), आशाम्बरेण - दिग् रूपी आकाश के कारण, अमू यामिन्यः - रात्रि का वासरा - दिन का, सादिताभिन्नभावा: - एकत्व भाव को प्राप्त, च - तथा, नभसि - आकाश में, राजहंसाः - श्रेष्ठ हंस समूह, भवतः आपका, सहायाः - अनुगामी, संपत्स्यन्ते - होंगे ।
अर्थः ( हे नाथ ! ) इस जनरहित पर्वत पर आपके निवास करने से गाढ़काले अञ्जन ( काजल ) कान्ति सदृश मेघान्धकार द्वारा आच्छादित दिशा रूपी आकाश के कारण ये रात्रि तथा दिन के एकत्वभाव को प्राप्त हो जाने पर ( उसके ज्ञान में ) आकाश में ( उड़ने बाले ) श्रेष्ठ हंस समूह आपके सहायक हों ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org