________________
८ ]
नेमिदूतम्
सा तं दूना मनसिजशरैर्यादवेशं बभाषे,
रक्षत्यातं शरणागमसौ क्षत्रियस्येति धर्मः। तन्मा स्वामिन्नवभवदधीना समभ्यर्थये त्वां,
याञ्चा मोघा वरमधिगुणे नाधमे लब्धकामा ॥ ६॥
अन्वयः - मनसिजशरैः, दूना, सा, तम्, यादवेशम्, बभाषे, शरणागम्, आर्तम्, रक्षति इति असो; क्षत्रियस्य, धर्मः, तत् स्वामिन्, भवत् अधीना ( अहम् ), त्वाम् समभ्यर्थये, माम्, अव, अधिगुणे, याञ्चा, मोघा वरम्, अधमे लब्धकामा, अपि, न ( वरम् )।
सा तमिति । मनसिजशरैः मदनबाणः । दूना व्यथिता संतापिता वा। . सा राजीमती। तं यादवेशं नेमिनाथं प्रति । बभाषे अभाणीत् । शरणागं शरणप्राप्तम् । आर्तं पीडितं रक्षति पालयति इति । असौ क्षत्रियस्य धर्मः असौ क्षत्रियवंशोत्पन्नस्य क्षत्रवंशोद्भवस्य वा धर्मः । तत् तस्मात् हेतोः स्वामिन् । भवत् अधीना त्वयि आश्रिता अहम् । त्वां समभ्यर्थये त्वयि प्रार्थनां करोमि, हे नाथ ! क्षत्रियाणां वंशे उत्पन्न प्रधानपुरुषं भवन्तमहं जानामि, अतएव दैवदुर्विपाकात् भवतः दूरस्थोऽहं भवत्सकाशं याचकत्वेनागता इति भावः । माम् अबलां, अव रक्षेति भावः । अधिगुणे गुणशालिनि पुरुषे । याञ्चा याचना, मोघा व्यर्था अपि, वरं श्रेष्ठा इति । अधमे गुणरहिते पुरुषे । लब्धकामा अपि पूर्णमनोरथा अपि ( याञ्चा ) न ( वरम् ) इत्यर्थः । श्लोकेऽस्मिन् अर्थान्तरन्यासालङ्कारः ॥ ६ ॥
शब्दार्थः - मनसिजशरैः-कामबाण से, दूना-व्यथित, सा-राजीमती ने, तम्-उससे, यादवेशम्-नेमिनाथ से, बभाषे-कहा, शरणागम्-शरणागत, आर्तम्-पीड़ित, रक्षति-रक्षा करता है, इति असौ-यही, क्षत्रियस्य धर्म:-क्षत्रिय का धर्म, तत्-उसके कारण, स्वामिन्-हे प्राणनाथ, भवत्आपके, अधीना-आश्रित ( मैं ), त्वाम्-तुमसे, समभ्यर्थये-प्रार्थना करती हूँ, माम्-अबला ( राजीमती ) की, अव-रक्षा करो, अधिगुणे-गुणी व्यक्ति के पास, याञ्चा-याचना, मोघा-निष्फल (भी), वरम्-अच्छी है; (परन्तु ) अधमे-गुणरहित व्यक्ति के पास, लब्धकामा अपि-पूर्ण अभिलाषा होने पर भी, न-नहीं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org