________________
४ ]
नेमिदूतम्
वप्रक्रीडायां परिणतः - वप्रक्रीडापरिणतः; स चासौ गजश्च इति वप्रक्रीडापरिणतगजः इति । उद्वीक्ष्येनं शमसुख रतं मेदुरांभोदनादै
त्यत्के किव्रजमथनगं प्रोन्मिषन्नीपपुष्पम् । साशोकार्ता क्षितितलमगात् स्यान्न दुःखं हि नार्यः,
कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥३॥ अन्वयः - अथ मेदुराम्भोदनादैः, नृत्यत्केकिब्रजम्, प्रोन्मिषत्, नीपपुष्पम्, नगम्, उद्वीक्ष्य, शमसुखरतम्, एनम् ( उद्वीक्ष्य ) सा शोकार्ता, क्षितितलम्, अगात्, हि, नार्यः, दुःखम् न स्यात् कण्ठाश्लेषप्रणयिनि, जने, दूरसंस्थे, किं, पुनः।
उद्वीक्ष्येनमिति । अथ मेदुराम्भोदनादैः-अनन्तरं पुष्टमेघध्वनिभिः । नृत्यत्केकिव क्रीडां कुर्वन् मयूरकलापम् इति । प्रोन्मिषत्-विकसन्ति नीपपुष्पं कदम्बकुसुमानि यस्मिन्स तम् । नगं-पर्वतम् । उद्वीक्ष्य-दृष्ट्वा । शमसुखरतम् उपशान्तिसुखोपगतम् । एनं नेमिनाथम्, ( उद्वीक्ष्य-दृष्ट्वा ) सा शोकार्ता-राज्ञः उग्रसेनस्य आत्मजा नेमिनाथस्य प्रिया राजीमती भत्रनुरागाभावाच्छोकपर्याकुला शोकविह्वला वा सती इति भावः । क्षितितलं पृथ्वीतलम् । अगात्-प्राप्ता । हि-यतोहि । नार्यः दुखं न स्यात् । ( साऽपि ) कण्ठाश्लेषप्रणयिनि-गलाऽऽलिङ्गनाभिलाषिणि । तहि जने-प्रियरूपे जने। दूरसंस्थे-असमीपस्थे ( सति )। किं पुनः का वार्ता (विरहिणी जनस्य )। श्लोकेऽस्मिन् अर्थान्तरन्यास अलंकारः ।। ३ ।।
शब्दार्थः - अथ-इसके बाद, मेदुराम्भोदनादैः-गम्भीरमेघध्वनि से, नृत्यत्केकिव्रजम् -नाचते हुए मयूरों, प्रोन्मिषत्-खिलते हुए, नीपपुष्पम्कदम्बपुष्पों ( से युक्त ), नगम्-पर्वत को, उद्वीक्ष्य-देखकर, शमसुखरतम् - वैषयिक रागादि से विरत होकर शान्ति सुख प्राप्ति में संलग्न, एनम्-अपने स्वामी नेमिनाथ को, (उद्वीक्ष्य-देखकर ), सा शोकार्ता-वह राजीमती शोक से विह्वल होकर ( मूच्छित होकर ), क्षितितलम्-भूतल को, अगात्-प्राप्त किया, हि-क्योंकि ( ऐसे समय में ), नार्यः-( जो) स्त्रियाँ, दुःखम् - प्रियवियोग ( में), न-नहीं, स्यात्-हों ( वह भी अपने प्रिय को गले लगाना चाहती हैं, तब ), कण्ठाश्लेषप्रणयिनि-गले लगाने वाले प्रिय, जने-जन के,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org