________________
नेमिदूतम्
[१०९
त्यक्त्वा लोलं नयनयुगलं तेऽरुणत्वं रुदत्या
मोनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥ १०२ ॥ अन्वयः - अथ, सा, एनाम्, आहूय, अवदत्, मुग्धे !, यः, निर्दयः; इत्थम्, त्वाम्, अत्यजत्, तस्य, इयत्, दुःखम्, किम्, धार्यते, रुदत्याः, ते, लोलम्, नयनयुगल म्, अरुणत्वम्, त्यक्त्वा , मीनक्षोभात्, चलकुवलयश्रीतुलाम्, एष्यति, इति।
आहूयनामिति । अथ सा हे नृपते ! अनन्तरं राजीमत्याः अम्बा, शिवा इति भावः । एनामाहूय अवदत् राजीमतीमकार्य अकथयत् । मुग्धे ! यो निर्दयः नेमिः दयारहितः । इत्थम्-बहुभिः विज्ञप्तिवाक्यैः प्रसादितोऽपि इत्यर्थः । त्वाम् अत्यजत् राजीमतीम् अमुञ्चत् । तस्य इयदुःखं नेमेः बहुना बहुशः वा क्लेशम् । किं धार्यते किमर्थमुह्यते । रुदत्यास्ते लोलं नयनयुगलं पश्य विलपत्यास्तव चपलम् अक्षिद्वयम् । अरुणत्वं त्यक्त्वा रक्तत्वं विहाय । मीनक्षोभात् मत्स्यसञ्चरणात् (मीनः क्षोभ:-मीनक्षोभः, तृ० तत्०, तस्मात् )। चलकुवलयश्रीतुलां चञ्चलनीलपद्मशोभोपमाम् [चलञ्च तत् कुवल. यम् ( कर्मधा० ) तस्य श्री चलकुवलयश्री (ष० तत्० ) तस्याः तुलाम्चलकुवलयश्रीतुलाम्, ( १० तत्०)] । एष्यतीति गमिष्यतीति ।। १०२ ॥
शब्दार्थ - अथ-इसके बाद, सा-वह ( शिवा ), उसने, एनाम्राजीमती को, आहूय-बुलाकर, अवदत्-कहा, मुग्धे-हे भोली-भाली राजीमती, यः-जो, जिसने, निर्दयः-निर्दयी ने, इत्थम्-इस प्रकार से, त्वाम्--तुमको, अत्यजत्--छोड़ दिया है, तस्य--उस (नेमि ) का, इयत्इतना अधिक, दुःखम् --दुःख, किम्,--क्यों, धार्यते-करती हो, रुदत्या:विलाप के कारण, ते-तुम्हारे, लोलम्-चञ्चल, नयन युगलम्-नेत्रद्वय; अरुणत्वम् - लालिमा का, त्यक्त्वा-त्याग कर, मीनक्षोभात्-मछली के हिलने-डुलने से, चलकुवलयश्रीतुलाम्-चञ्चल नीलकमल की शोभा की उपमा को, एष्यतीति-प्राप्त हो गया है।
अर्थः -- इसके बाद, माता ने इस राजीमती को बुलाकर कहा-हे मुग्धे ! जिस निर्दयी ने इस प्रकार से ( अनुनय करने पर भी ) तुमको छोड़ दिया उसका इतना अधिक दुःख क्यों करती हो ? ( देखो ) रोने के कारण तुम्हारा चञ्चल, नेत्रयुगल रक्तिमा का परित्याग कर मछली के हिलने-डुलने से चञ्चल नीलकमल की शोभा की समता को प्राप्त हो गया है ।
Jain Education International
For Private & Personal Use Only.
www.jainelibrary.org