________________
नेमिदूतम्
प्यमान् अपने उस निवास गृह को प्राप्त करोगे जिस आवास के आगे का वह भाग, किसके लिए आनन्ददायक नहीं होता है ( अर्थात् सभी के लिए आनन्ददायक होता है ), जिसके अग्रभाग पर मेघ का मित्र तुम्हारा मयूर सन्ध्याकाल में बैठता है। नत्वा पूर्व पितृमुखगुरून् तान्विसृज्यान्यबन्धून्,
सौधं मां च द्वयमपि ततोऽलंकुरुष्वाचित्तः । यनिःश्रीकं हरति न मनस्त्वां विना यादवेन्दो !,
सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥७॥ अन्वयः – (हे ) यादवेन्द !, ( त्वम् ), पूर्वम्, पितृमुखगुरून्, अन्यबन्धून्, नत्वा, तान्, विसृज्य, ततः, आर्द्रचित्तः ( सन् ), सौधम्, माम्, च, द्वयमपि, अलंकुरुष्व, यत्, त्वाम्, विना, निःश्रीकम्, मनः, न हरति, ( यतः ), सूर्यापाये ( सति ), कमलम्, स्वामभिख्याम्, न, पुष्यति, खलु ।
नत्वेति । यादवेन्दो ! त्वं पूर्व हे यदुकुलचन्द्र ! तस्यां द्वारिकायां प्रवेशं कृत्वा भवान् सर्वप्रथमम् । पितृमुखगुरून् पितरो आदी येषां ते पितृमुखास्ते च ते गुरुवश्च गरिष्ठास्तान् इत्यर्थः । अन्यबन्धून् अपरस्वजनान्, नत्वा प्रणम्य । तान् विसृज्य स्वगृहगमनायादिश्य ततः आर्द्रचित्तः ( सन् ) पश्चात् सकरुणहृदयः सन् । सौधं माम् च स्वावासगृहं माम् राजीमतीञ्च । द्वयमपि अलंकुरुष्व स्वावासगृहञ्च राजीमतीञ्चापि विभूषय । यत् त्वां विना यद्वयं भवन्तं विना। निःश्रीकं मनः न हरति गतलक्ष्मीकं श्रीरहितं वा सज्जनानां चेतो न आकर्षयति चोरयति वा। सूर्यापाये कमलं स्वामभिख्यां यतः दिनकरास्ते ( सूर्यस्य अपायः- सूर्यापायः, ष० तत्, तस्मिन् ) पद्म कान्तिम् । न पुष्यति खलु न धारयति निश्चयेन ॥ ८७ ।।
शब्दार्थः - यादवेन्दो-यदुकुलचन्द्र, ( त्वम्-तुम ), पूर्वम्-पहले, पितृमुखगुरून्-माता-पिता तथा श्रेष्ठजनों को, (तथा ), अन्यबन्धून्-अन्य स्वजनों को, नत्वा-प्रणाम करके, तान्-उनको, विसृज्य-निवृतकर ( अपने घर जाने का आदेश देकर ), ततः-पश्चात्, आर्द्रचित्तः ( सन् )-आर्द्रचित्त हो, सकरुण हृदय हो, सौधम्-वासगृह को, माम-राजीमती को, च-तथा, द्वयमपि-दोनों को भी, अलंकुरुष्व- अलंकृत करो, सुशोभित करो, यत्जो ( दोनों), त्वाम्-तुम्हारे, विना-विरह में, निःश्रीकम् -श्रीरहित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org