________________
९० ]
नेमिदूतम्
पुष्पाकोणं पुरि सह तदा यस्त्वया राजमार्ग,
यास्यत्युद्यद् ध्वजनिवसनं चन्दनांभश्छटांकम् । शौरि पीताम्बरधरमनु क्ष्माधरे मेघमेनं,
प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥२४॥
अन्वयः - माधरे, उपान्तस्फुरिततडितम्, एनम्, मेघम्, प्रेक्ष्य, पुरि, तदा, चन्दनांभश्छटांकम्, उद्यद् ध्वज निवसनम्, पुष्पाकीर्णम्, राजमार्गम्, त्वया, सह, यः, यास्यति, त्वाम्, अनु, तम्, पीताम्बरधरम्, शौरिम्, एव, ( अहम् ), स्मरामि ।
पुष्पाकीर्णमिति । क्ष्माधरे उपान्तस्फुरिततडितं हे नाथ ! अस्मिन् पर्वते समीपस्फुरितविद्युतम् [ स्फुरिताः तडितः यस्य स स्फुरिततडित् ( बहुब्री० ) उपान्तेषु स्फुरिततडित्-उपान्तस्फुरिततडित् ( स० त० ) तम् ।। एनं मेघं प्रेक्ष्य एनं जलदं दृष्ट्वा । पुरि तदा चन्दनांभश्छटांकं तस्यां द्वारिकायां प्रवेशोत्सवे चन्दनांभसां याश्छटास्तासामंकचिह्न विद्यते यस्मिन्स तम् इत्यर्थः । उद्यध्वजनिवसनम् उच्छलद्पताकापटं वस्त्रं वा। पुष्पाकीर्णं राजमार्ग कुसमाच्छादितं नपतिपथम् । त्वया सह यो यास्यति भवता नेमिना इत्यर्थः, सह पीताम्बरधरः शौरिः गमिष्यति । त्वामनु अत एव भवन्तमनुलक्षीकृत्य तदनुगामित्वेनेत्यर्थः। तं पीताम्बरधरं शौरिमेव तं कृष्णमेव स्मरामि अहं राजीमती स्मरणङ्करोमि ॥ ८४ ॥
शब्दार्थ: - क्ष्माधरे-इस पर्वत पर, उपान्तस्फुरिततडितम्-छोरों पर चमकती हुई बिजली वाले, एनं मेघम्-इस मेघ को, प्रेक्ष्य-देखकर, पुरि-उस द्वारिका में, तदा-प्रवेश करने पर, चन्दनांभश्छटांकम्--चन्दन जल की आभा से चिह्नित, उद्यद् ध्वजनिवसनम्-लहराती हुई पताकावस्त्र, पुष्पाकीर्णम्-बिखरे हुए पुष्प युक्त, राजमार्गम्-नृपति के मार्ग पर, त्वया सह-तुम्हारे साथ, य:-पीतम्बरधारी कृष्ण, यास्यति-जायेंगे, त्वामनुतुम्हारा अनुगमन करने वाले, तम्-उस, पीताम्बरधरम् -पीताम्बरधारी, शौरिम्-कृष्ण को, एव–ही, स्मरामि-स्मरण करती हूँ। ____ अर्थः - ( हे नाथ ! ) इस पर्वत के समीप चमकती हुई बिजली वाले इस मेघ को देखकर, उस द्वारिका में प्रवेश करने पर चन्दन जल की आभा से चिह्नित लहराती हुई पताका वस्त्र, ( तथा ) बिखरे हुए पुष्प युक्त नृपति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org