________________
नेमिदूतम्
( सन् ), गतभी:, चरति, यस्मात्, तस्य, आजी, हरविजयिनः, बाणस्य; आरम्भः, हेलाकृतयुवमनोमोहनप्राप्तप्रकर्षः, चतुरवनिताविभ्रमैः, एव, सिद्धः ।
बाणस्येति । यस्यां वासुदेवस्यासत्ति प्राप्य हे नाथ ! द्वारिकायां कृष्णस्य नैकट्यं सान्निध्यं वा लब्ध्वा, आसाद्य । पुष्पचापः, निरस्त्रः कामदेवः, अस्त्ररहितः सन् । गतभीः चरति गता भयं यस्मात्स गतभयत्वे कामस्य हेतुः स्ववैरिविजेत्राजिनिविष्टकेशवासन्नवस्थायित्वमिति भावः, विहरति अटति वा । यस्मात् तस्य आजौ हरविजयिनः यस्माद्धेतुः कामदेवस्य संग्रामे शम्भुजेतुः, बाणस्यारम्भः इषोर्यिः, व्यापारः । हेलाकृतयुवमनोमोहनप्राप्तप्रकः हेलया कृतं यद्युवमनोमोहनं-तरुणचेतोरञ्जनं तेनाप्तः प्रकर्ष आधिक्यं यैस्ते तैः । चतुरवनिताविभ्रमैरेव सिद्धः पटुविलासिनीविलासैरेव साधित: [ 'चतुरवनिताविभ्रमैः' चतुराश्च ताः वनिताः-चतुरवनिताः ( कर्म० ) तासां विभ्रमाः चतुरवनिताविभ्रमाः ( षष्ठी तत्० ) तैः, V सिध् + क्त ] ॥ ८१ ॥ __ शब्दार्थः - यस्याम्-जिस द्वारिका में, वासुदेवस्य-कृष्ण का; आसत्तिम्-सान्निध्य, प्राप्य-प्राप्त कर, पाकर, पुष्पचाप:-कामदेव, निरस्त्रः ( सन् )-अस्त्ररहित होकर, गतभी:-भय का परित्याग कर, चरति-विहार करता है, विचरण करता है, यस्मात्-जिससे कि, तस्यकामदेव के, आजी-संग्राम में, हरविजयिन:-शिवविजयी, बाणस्य-बाण का, आरम्भः-कार्य, हेलाकृतयुवमनोमोहनप्राप्तप्रक:-क्रीड़ा के द्वारा युवजनों के चित्त को हरने वाली, मोहित करने वाली, चतुरवनिताविभ्रमैःविदग्धवनिताओं के विलासों से, एव-ही, सिद्धः-सिद्ध हो जाता है ।
अर्थः - जिस द्वारिका में कृष्ण का सान्निध्य प्राप्त करके कामदेव अस्त्र रहित हो भय का परित्याग करके विचरण करता है, जिससे कि ( क्योंकि ) कामदेव के संग्राम में शिवविजयी बाण का कार्य क्रीड़ा के द्वारा युवजनों के चित्त को हरनेवाली विदग्धवनिताओंके विलासों से ही सिद्ध हो जाता है। यायास्तस्मादथ परिवृतस्त्वं प्रवेशाय तस्यां,
तत्प्राचीनं पुरि हरिमुखैर्गोपुरं यादवेन्द्रः । यत्राशोकः कलयति नवस्तोरणाभा तथान्यो
हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः ॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org