________________
७८]
नेमिदूतम्
अर्थः -जिस द्वारिका में वनिताओं के कान में स्वच्छ जातिपुष्प, वेणियों में केतकी पुष्प, कपोलों में कस्तूरी से किये गये रूपरचना युक्त पत्रलता, गले में कुटजपुष्पों की माला ( हार ) तथा मांग में तुम्हारे आगमन से उत्पन्न कदम्ब पुष्प मनोज्ञ प्रसाधन होगा। यस्यां रम्यं युवजनमनोहारिवारांगनानां,
लास्यं तालानुगतकरणं भास्यति त्वत्प्रवेशे । वाञ्छन्तीनां तदवगमनानन्दभाजा प्रसाद,
त्वद्गम्भीरध्वनिषु शनकः पुष्करेष्वाहतेषु ॥७२॥ अन्धयः-- यस्याम्, त्वत् प्रवेशे, गम्भीरध्वनिषु, पुष्करेषु, शनकः, आहतेषु, तदवगमनानन्दभाजाम्, त्वत्प्रसादम्, वाञ्छन्तीनाम्, वारांगनानाम्, युवजनमनोहारि, तालानुगतकरणम्, रम्यम्, लास्यम्, भास्यति ।
यस्यामिति । यस्यां त्वत् हे नाथ ! द्वारिकायां भवतः ( नेमेः ) प्रवेशे । गम्भीरध्वनिषु पुष्करेषु गम्भीरस्तनितेषु वाद्यपात्रमुखेषु । शनकैराहतेषु मन्दंसुताडितेषु ( सत्सु )। तदवगमनानन्दभाजां लास्यस्य ज्ञानं तेन प्रमोदं भजन्तीति तदवगमनानन्दभाजस्तासाम् । त्वत्प्रसादम् नेमेरनुनयम् । वाञ्छन्तीनां वारांगनानाम् इच्छन्तीनां पण्याङ्गनानां वारवनितानां वा । युवजनमनोहारि तरुणलोकमनोहारि ( युवजनानां मनांसि हरतीति युवजनमनोहारि ) । तालानुगतकरणं तालश्चञ्चपुटादिस्तेनानुगतं-सम्बद्धं करणं गतिभेदः अंगहार भेदः वा, स्थिरहस्तपर्यस्ततारकादित्रिंशत्प्रकारो यस्मिन्तत्तथा। रम्यं लास्यं भास्यति मनोज्ञं नृत्यं शोभिष्यते ॥ ७२ ।।
शब्दार्थः - यस्याम्-जिस द्वारिका में, त्वत्प्रवेशे-नेमि के प्रवेश ( करने ) पर, गम्भीरध्वनिषु-गम्भीर ध्वनि वाले, पुष्करेषु-मृदङ्गों पर, शनकैः-धीरे-धीरे, आहतेषु-थपकी लगाये जाने पर, तदवगमनानन्दभा जाम्-लास्यादि के सम्यक् ज्ञान से आनन्दित करने वाली, त्वत्प्रसादम्-नेमि की प्रसन्नता की, वाञ्छन्तीनाम्-आकांक्षा करती हुई, वारांगनानाम्वाराङ्गनाओं ( वेश्याओं ) का, युवजनमनोहारि-तरुण जनों के मन को हरने वाली, तालानुगतकरणम्-तालादिगत गीत भेद से युक्त, रम्यम्-मनोज्ञ, लास्यम्-नृत्य, भास्यति-शोभित होगा। ____ अर्थ:-जिस द्वारिका में तुम्हारे प्रवेश पर गम्भीर ध्वनि वाले मृदङ्गों पर धीरे-धीरे थपकी लगाये जाने पर लास्यादि के सम्यक् ज्ञान से आनन्दित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org