________________
६८ ]
नेमिदूतम्
को व्याप्त करके नवीन मेघों के सदृश बलि को बांधने के लिए तत्पर वामन के सांवले पैर की तरह शोभित होता है । तांस्तान्ग्रामास्तमपि च गिरि दक्षिणेन व्यतीत्य,
द्रष्टास्यग्ने सितमणिमयं सौधसंघ स्वपुर्याः । कान्त्वा वप्रं वियति विशदः शोभते योऽशुजालैः;
राशीभूतः प्रतिदिशमिव त्र्यम्बकस्याट्टहासः ॥ ६२॥ अन्वयः - ( त्वम् ), तम्, गिरिम्, तांस्तान्यामानपि, व्यतीत्य, च, दक्षिणेन, अने, स्वपुर्याः सितमणिमयम्, सौधसंघम्, द्रष्टासि, यः वियति, विशदः, अंशुजालः, वप्रम्, क्रान्त्वा प्रतिदिशम्, राशीभूतः, त्र्यम्बकस्य, अट्टहासः, इव, शोभते।
तांस्तान्नामानिति । त्वं तं गिरि तांस्तान्यामानपि हे नाथ ! त्वं (नेमिः ) वेणुलाख्यं शैलम् पूर्वपरिचितान् तान् ग्रामानपि, व्यतीत्य च अतिक्रम्य तथा दक्षिणेन दक्षिणा दिग्विभागे ( दक्षिणेनेत्यव्ययं, "एनबन्यतरस्यामदूरे पञ्चम्या" इत्येनप् प्रत्ययः ) । अग्रे स्वपुर्याः पुरः निजद्वारिकायाः, सितमणिमयं सोधसंघ स्फटिकमणिनिमितं मन्दिरसमूहम् । द्रष्टासि अवलोकितासि । यः वियति विशदैः अंशुजालैः सितमणिमयसौधसंघः आकाशे निर्मलैः किरणसमूहैः । वप्रं क्रान्त्वा प्राकारमुल्लध्य । प्रतिदिशं दिशे दिशे इति प्रतिदिशम् ( अव्ययी भावः )। राशीभूत: त्र्यम्बकस्य पुजीभूतः शिवस्य [ त्रीणि अम्बकानि यस्य स त्र्यम्बकः ( बहुब्री. ) त्रयाणां लोकानाम् अम्बकः ( पिता ) त्र्यम्बकः, (ष० तत्० ) त्रीन् वेदान् अम्बते उच्चार्यते इति त्र्यम्बः त्र्यम्ब एव त्र्यम्बकः स्वार्थे कन् ( द्वि० तत्० ) ] अट्टहास इव शोभते अतिहास इव शोभते राजते वा ।। ६२ ॥
शब्दार्थः - (त्वम्-तुम); तं गिरिम्-वेणुपर्वत से, तांस्तान्यामानपिउन-उन ( पूर्वपरिचित ) ग्रामों को भी, व्यतीत्य-अतिक्रमण करके, चतथा, दक्षिणेन-दक्षिण दिशा में, अग्रे-सामने, पहले, स्वपुर्या:-अपनी द्वारिका के, सितमणिमयं सोधसंघम्-स्फटिकमणिनिर्मित भवनसमूह को, द्रष्टासि-देखोगे, यः-जो ( भवन समूह), वियति-आकाश में, विशदैः - निर्मल, अंशुजालैः-किरण समूहों द्वारा, वप्रम्-प्राकार को, क्रान्त्वालांघकर के, प्रतिदिशम्-प्रत्येक दिशा में, राशीभूतः-एकत्र हुए, ढेर लगे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org