________________
६२ ]
नेमिदूतम् जलधारा ऐसे स्फटिकमणि की भूमि वाले गन्धमादन-पर्वत के ऊपर पड़ने वाली नूतन जलधरवत् कान्ति है जिसकी ऐसे तुम्हारे शरीर की छाया से प्रयाग से भिन्न स्थान में यमुना के साथ संगम करती हुई गङ्गा सी मनोहर प्रतीत होगी। भास्वभास्वन्मणिमयवृहत्तुङ्गशृंगाप्रसंस्थाः,
संप्रत्युद्यत्परिणतफलश्यामला वामभागे । यस्मिन्जम्बूक्षितिरुहचया धारयिष्यन्ति सान्द्राः,
शोभा शुभ्रविनयनवृषोत्खातपङ्कोपमेयाम् ॥५६॥ अन्वयः-सम्प्रति, यस्मिन्, वामभागे, सान्द्राः, जम्बूक्षितिरुहचया, उद्यतपरिणतफलश्यामला, भास्वद्भास्वन्मणिमयबृहत्तुङ्गशृङ्गाग्रसंस्थाः, (त्वम् ) शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम्, शोभाम्, धारयिष्यन्ति ।
भास्वद्भास्वन्मणिमयेति । सम्प्रति यस्मिन् अधुना गन्ध-मादन-पर्वते । वामभागे सान्द्राः जम्बूक्षितिरुहचया वामप्रदेशे घनाः स्निग्धाः वा जाम्बतरुसंघाः । उद्यतपरिणतफलश्यामलाः उद्यन्ति परिणतानि पक्वानि यानि फलानि तैः, श्यामला: अतिशयेन कृष्णवर्णा इत्यर्थः । भास्वद्भास्वन्मणिमयवृहत्तुंगशृंगाग्रसंस्थाः प्रस्फुरद्स्फटिकमणिचयात्युच्च शिखरसान्वाग्रस्थितः उपविष्ट: सन् त्वम् । शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम् श्वेतशिववृषभविदारितकर्दमतुल्याम् [ त्रीणि नयनानि यस्य स त्रिनयनः (बहुबी०), त्रिनयनस्य वृषःत्रिनयनवृषः (ष० तत्०), शुभ्रश्चासौ त्रिनयनवृष:-शुभ्रत्रिनयनवृषः ( कर्म० ), शुभ्रत्रिनयनवृषेण उत्खातः शुभ्रत्रिनयनवृषोत्खातः (तृ० तत्०), स चासौ पङ्कः ( कर्मधा० ), शुभ्रत्रिनयनवृषोत्खातपंकेनोपमेयाम्-शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम् (तृ० तत्० ) ]। शोभां धारयिष्यन्ति श्रियं वक्ष्यन्ति ।। ५६ ।।
शब्दार्थः - सम्प्रति-अब, इस समय, यस्मिन् -जिस गन्धमादन के, वामभागे-बायें भाग में, सान्द्रा: -घने, जम्बूक्षितिरुहचया-जामुनवृक्षसमूहों, उद्यतपरिणतफलश्यामला:--पके फलों से श्यामवर्णवाले, भांस्वद्भास्वन्मणिमयवृहत्तुंगशृंगाग्रसंस्था:-चमकते हुए स्फटिक मणिमय अत्युच्चशिखरशृंग पर स्थित ( आप ), शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम्-शिवजी के श्वेत बैल के द्वारा उखाड़े गये कीचड़ के समान, शोभाम् --कान्ति को, धारयिष्यन्तिधारण करेंगे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org