________________
६०1
नेमिदूतम् यस्मिन्पूर्व किल विरचितो' वामभागे भवानों,
देवों वीक्ष्य त्रिपुरजयिनः स्वेच्छया केलिभाजः। जह्नोः पुत्री तदनुदधतीं तामिवेयां सपत्न्याः,
शम्भोः केशग्रहणमकरोदिन्दुलग्नोमिहस्ता ।। ५४ ॥ अन्वयः - पूर्वम्, यस्मिन्, स्वेच्छया, केलिभाजः, त्रिपुरजयिनः, वामभागे, विरचितः, भवानीम्, देवीम्, वीक्ष्य, तदनु, जह्नोः, पुत्री, ताम्, सपन्याः; ईर्ष्याम्, दधतीम्, इव इन्दुलग्नोमिहस्ता ( सती ), शम्भोः ; केशग्रहणम्, अकरोत्, किल ।
यस्मिन्पूर्वमिति । पूर्व यस्मिन् स्वेच्छया पुरा गन्ध-मादन-पर्वते स्वकामेन । केलिभाजः केलि-क्रीडां भजतीति केलिभाक् तस्य, त्रिपुरजयिनः शिवस्य । वामभागे विरचितः वामप्रदेशे स्थितः । भवानी देवी पार्वतीम्, वीक्ष्य अवलोक्य । तदनु जह्रोः पुत्री पश्चाद् गङ्गा। तां पार्वती सपन्याः, ईयां दधतीं कुर्वन्तीम् इव । इन्दुलग्नोमिहस्ता चन्द्रसंलग्नवीचिकरा [ इन्दौ लग्नाःइन्दुलग्नाः ( स० तत्पु०), इन्दुलग्नाः ऊर्मयः एव हस्ता: यस्याः सा इन्दुलग्नोमिहस्ता ( बहुब्री० ) ताम् ] शम्भोः शिवस्य, केशग्रहणमकरोत् जटाग्रहणम् [ केशानां ग्रहणम् -केशग्रहणम् ( ष० तत्पु० ) ] चकार किलेति सम्भावनायाम् ॥ ५४॥.
सम्वार्थः - पूर्वम्-पुराकाल में, यस्मिन्-जिस ( गन्ध-मादन-पर्वत ) पर, स्वेच्छया-अपनी इच्छानुसार, केलिभाजः-क्रीड़ा करने वाले, त्रिपुरजयिनः-शिव के, वामभागे-बायें भाग में, विरचितः-स्थित, भवानी देवीम्-पार्वती देवी को, वीक्ष्य-देखकर, तदनु-पश्चात्, जह्नोः पुत्रीगङ्गा ने, ताम्-उस पार्वती को ( से ), सपत्न्याः -सौतके कारण, ईर्ष्याम्द्वेष, दधतीम्-धारण करती हुई, इव-मानो, इन्दुलग्नोमिहस्ता ( सती)( शिव के मस्तक पर स्थित ) चन्द्रमा पर लहररूपी हाथों को रखती हुई, शम्भोः -शिव के, केशग्रहणम्-केशों को पकड़, अकरोत्-लिया, किया, किल-सम्भावनार्थक अव्यय । ___ अर्थः - पुराकाल में जिस ( गन्ध-मादन-पर्वत ) पर अपनी इच्छानुसार क्रीड़ा करने वाले शिव जी के बायें भाग में स्थित पार्वती देवी को देखकर १. विरचतो' इति ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org