SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ५६ ] नेमिदूतम् उच्चभिन्नाञ्जनतनुरुचौ हारिनोरं रथस्थे तस्यास्त्वय्युत्तरति सरितो यादवेन्द्र ! प्रवाहम् । वोक्षिष्यन्ते क्षणमनिमिषा व्योमभाजोऽतिदूरा देकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥ ५० ॥ अन्वयः -- यादवेन्द्र ! तस्याः, सरितः, हारिनीरम्, प्रवाहम्, उत्तरति ( सति ), भिन्नाञ्जनतनुरुचौ, त्वयि, रथस्थे, उच्चैोमभाजः, क्षणम्, अनिमिषा, अतिदूराद्, एकम्, स्थूलमध्येन्द्रनीलम्, भुवः मुक्तागुणमिव, ( त्वाम् ) वीक्षिष्यन्ते । उच्चभिन्नाञ्जनेति । यादवेन्द्र ! तस्याः सरितः हारिनीरं प्रवाहं हे नाथ ! भद्रायाः नद्याः मनोहारिजलमोघम्, उत्तरति सति । भिन्नाञ्जनतनुरुचौ-भिन्नमदितं यदंजनं तद्वत्वपुरुचिः-शरीरकान्तिर्यस्य स तस्मिन् नेमी इत्यर्थः । त्वयि रथस्थे उच्चैयॊमभाजः क्षणमनिमिषा भवति ने मौ इति भावः, स्यन्दनारूढे कुलीनः गगनचारिणो ( व्योमभाजः-बहुब्री० ) मुनिदेवसिद्धविद्याधरादयः मुहूर्त निमेषरहिता सन्तः । अतिदूरादेकं स्थूलमध्येन्द्रनीलं भद्रायाः प्रवाह विप्रकृष्टत्वादेकयष्टिकं तथा पृथुमध्यमणीभूतेन्द्रनीलम् ( मध्यश्चासौ इन्द्रनील:-मध्येन्द्रनील:, कर्मधा०, स्थूल: मध्येन्द्रनीलो यस्य तम्-स्थूलमध्येन्द्रनीलम्, बहुब्री० ) । भुवः मुक्तागुणमिव वीक्षिष्यन्ते पृथिव्याः मौक्तिकहारं यथा ( मुक्तायाः गुणम्-मुक्तागुणम्, १० तत्पु०) स्वामवश्यम् अवलोकयिष्यन्ति ॥ ५० ॥ शब्दार्थः-यादवेन्द्र ! -हे यादवेन्द्र !, तस्याः सरितः-उस सरिता के, हारिनीरम्-मनोहर जल, प्रवाहम्-प्रवाह को, उत्तरति-पार करते हुए, भिन्नाञ्जनतनुरुचौ-मर्दित अञ्जनवत् शरीरकान्तिवाले, त्वयि रथस्थे-तुम्हें रथारूढ़, उच्चैोमभाजः-कुलीन गगन में विचरण करने वाले ( सिद्ध आदि ), क्षणम्-क्षणभर, अनिमिषा-अपलक नेत्रों से, अतिदूरात्अधिक दूरी के कारण, एकम्-एक लड़ी वाली, स्थूलमध्येन्द्रनीलम्-मध्य में इन्द्रनीलमणि से युक्त, भुवः-पृथिवी की, मुक्तागुणमिव-- मोती की माला की तरह, वीक्षिष्यन्ते-देखेंगे। अर्थः -हे यादवेन्द्र ! भद्रानदी के प्रवाह को पार करते हुए मदिताञ्जमवत्शरीरकान्तिवाले (अर्थात् नीलवर्णन वाले ) रथारूढ़ तुम्हें गगन में विचरण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002117
Book TitleNemidutam
Original Sutra AuthorN/A
AuthorVikram Kavi
PublisherParshwanath Shodhpith Varanasi
Publication Year1994
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy