________________
४१८
बौद्ध प्रमाण-मीमांसा की जैनदष्टि से समीक्षा
स्वलक्षणसमुद्भवं तदविकल्पकं वेदनम् ॥६७ ॥ यदवादि स्वसंवेदनप्रत्यक्षेण तस्य कल्पनाशून्यस्यैवानुभूयमानत्वादिति । तत्कोशपानप्रत्यायनीयम् । नीलमहं विलोकयामीत्युल्लेखशेखरं व्यवसायात्मकमेव हि प्रत्यक्षं सर्वदा सर्वत्र सर्वैरनुभूयते । यदप्यवादि प्रत्यक्षस्य शब्दविकलनीलाद्यर्थसामर्थ्येनात्मलाभादिति । तदपि नावदातम् । नहि निःशब्दकार्थजनितमित्येतावतैव ध्वनि विना कृत्यमभिधातुं पार्यते । अन्यथा ह्यचेतनवस्तुसमुत्पादितमित्यचेतनमपि तद्भवेत्। -स्थाद्वादरत्नाकर, पृ० ७५-७६ पादटिप्पण - ३५६
तथाहि स्वलक्षणगोचरे निर्विकल्पकप्रत्यक्षे समुत्पन्नेऽपि न यावद्विधिनिषेधद्वारा पश्चाद् भाविविकल्पयुग्मं समुल्लसति न तावदिदं नीलं नेदं पीतमिति इदन्तयाऽनिदन्तया वा प्रतिनियतपदार्थव्यवस्थानमास्थीयते ताथागतैः “यत्रैव जनयेदेनां तत्रैवाऽस्य प्रमाणता” इति वचनात् उत्पन्नस्यापि निर्विकल्पकस्य व्यवहारं प्रत्यनुत्पन्नप्रायत्वात्। तच्च व्यवस्थापकं प्रत्यक्षपृष्ठभाविविकल्पयुगलकं प्रतिपत्तुःप्राक्प्रवृत्तसंकेतावसरसमवधारितं शब्दसामान्यमनुस्मरत एव भवितुमर्हति ।
स्वत एव हि व्यवसायात्मकं प्रत्यक्षं न पुनः शब्दसम्पर्कापेक्षया । तदपेक्षायां हि वर्णपदव्यवसायः कथं नाम स्यात् । तद्व्यवसायेऽपि परस्य नाम्नोऽवश्यं स्मरणेनानवस्थोपनिपातात् । नामान्तरस्मरणमन्तरेण स्वत एव वर्णपदव्यवसाये तु वस्तुव्यवसायोऽपि स्ववाचकनामस्मरणमन्तरेण स्वत एवास्तु न कार्य शब्दसम्पर्केण एवं च शब्दसम्पर्करहितमपि विशदसंवेदनम् । यतः,सविधवतिनं निजांशव्यापिनं कालान्तरस्थायिनं स्थगितप्रतिक्षणपरिणाममलक्ष्यमाणपरमाणंपरिमाणं वस्त्वन्तरैः सह सदृशविसृशाकारं कुम्भादिकं भावमवभासयतीति कृत्वा सविकल्पकमित्यभिधीयते । पराभिमतायःशलाकाकल्पक्षणक्षयिपरमाणुलक्षणग्रहणनिपुणनिर्विकल्पकप्रत्यक्षप्रतिक्षेपार्थ प्रत्यक्षस्य शब्दसम्पर्कयोग्यगोचरता संदर्शनार्थश्च। स्याद्वादरत्नाकर, पृ० ७६-७८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org