________________
परिशिष्ट (तृतीय अध्याय)-ख
४१७
र्थस्वरूपोद्योतकत्वात्, तत्स्वरूपञ्च जात्यादिविशिष्टं 'गौः' 'शुक्लः', 'चरति' इत्यादि प्रत्ययात् प्रसिद्धम् । न खलु प्रतीयमानस्याऽपलापो युक्तः सर्वत्रानाश्वासप्रसङ्गात् ।
-न्यायकुमुदचन्द्र भाग-१,पृ. ५० पादटिप्पण - ३३४
परनिरपेक्षतया वस्तुतथाभावप्रकाशकं हि प्रमाणम्,न चाविकल्पकम् तथा नीलादौ विकल्पस्य क्षणक्षयेऽनुमानस्यापेक्षणात्। ततोऽप्रमाणं तत् वस्तुव्यवस्थायामपेक्षित- परव्यापारत्वात् सत्रिकर्षादिवत् ।-प्रमेयकमलमार्तण्ड ,भाग-१ पृ.८७ पादटिप्पण - ३५२
किञ्च असम्भवाव्याप्त्यतिव्याप्तयस्त्रयो दोषाः निषेधनीया:लक्षणे विचक्षणैः । न च प्रत्यक्षशब्दवाच्चे सर्वस्मिन्नपि वस्तुनि निर्विकल्पकत्वाधान्तत्वे सम्भवत इत्यसम्भवातिव्याप्त्योरसम्भवेऽप्यव्याप्तिः प्राप्तैव प्रत्यक्षलक्षणस्य । तथागतमेकमन्तरेणापरेषां सविकल्पकज्ञानेऽपि प्रत्यक्षशब्दवाच्यत्वस्य प्रसिद्धेः। न च तत्र सविकल्पकत्वं पराकृत्य निर्विकल्पकत्वकल्पनां भवानप्यातिष्ठते । स्याद्वादरत्नाकर, पृ० २२ पादटिप्पण - ३५३
भवति ह्येवमभ्रान्तपदस्यापार्थकत्वं सम्यग्ज्ञानस्य भ्रान्तत्वायोगात् । अथ समर्थित एवाभ्रान्तपदस्यार्थो विप्रतिपत्तिक्षेपो नाम । गच्छवृक्षादिदर्शनस्य हि ग्राह्ये विपर्यस्तस्यापि कल्पनापोढत्वं पश्यन्नवश्यमध्यवस्येत् प्रत्यक्षत्वं कश्चिदिति तत्प्रतिक्षेपायाविपर्यस्तार्थप्रतिपादकमप्रान्तपदमुपादेयमिति चेत् । हन्त बौद्धोऽपि नट इव केवलवाकप्रपञ्चेन वंचयसि । गच्छवृक्षादिवेदनं हि तत्र तत्र मिथ्याज्ञानं मिथ्याज्ञानमिति सर्वत्रांशे विसंवादकमिति प्रपञ्चतःप्रतिपाद्येदानीं ग्राह्य विपर्यस्तमिति पर्यायान्तरं परिकल्प्याभ्रान्तपदेन व्यपोहसि ननु सम्यग्ज्ञानपदेनेति व्यक्तं ते वाग्व्यंसकत्वम्। स्याद्वादरत्नाकर, पृ० २२-२३ पादटिप्पण - ३५५ __ स्वसंवेदनप्रत्यक्षेण तस्य कल्पनाशून्यस्यैवानुभूयमानत्वात् । अथात्र विप्रतिपद्येत कश्चित् । नासौ विपश्चित् । तथाहि प्रत्यक्षस्य शब्दविकल्पनीयाद्यर्थसामर्थ्येनात्मलाभात्तद्रूपप्रतिभासित्वमेव न्याय्यं नाऽभिलापरूपप्रतिभासित्वमपि । असति चाभिलापरूपप्रतिभासित्वे कथं तत्र व्यवसायस्वभावत्वं सङ्गच्छते । किञ्च
स्वलक्षणनिनादयो न खलु विद्यते संगतिः परस्परमभिन्नता न हि तयोः पृथग्दर्शनात् । समस्ति न तदुत्थताप्यपरहेतुजन्यत्वतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org