________________
४१६
बौद्ध प्रमाण-मीमांसा की जैनदृष्टि से समीक्षा
पादटिप्पण- ३२९
ननु निर्विकल्पकमपि प्रत्यक्ष व्यतिरिक्तविकल्पोत्पादकत्वतःप्रवर्तकत्वात् प्रमाणतां प्रतिपद्यते ; इत्यपि श्रद्धामात्रम् ; तस्याऽविदितस्वरूपस्य सन्निकर्षादविशेषप्रसङ्गात्,तस्यापि हि इत्थं प्रवर्तकत्वमुपपद्यते । न च चेतनाऽचेतनत्वकृतस्तयोर्विशेषः निर्विकल्पकप्रत्यक्षस्यापि चेतनत्वाऽप्रसिद्धः । परनिरपेक्षतया स्वरूपोपदर्शकं हि चेतनमुच्यते,न चाविकल्पकाध्यक्षं स्वप्नेऽपि तथा स्वरूपमुपदर्शयतीति कथं तच्चेतनं यतः सन्निकर्षाद्विशेष्येत? अतः तद्विशेषमिच्छता व्यवसायात्मकं तत् प्रतिपत्तव्यम्, निर्व्यापारस्य अननुभूयमानस्वरूपस्यास्य अपरप्रकारेण सन्निकर्षाद् भेदाऽप्रसिद्धेः । न्यायकुमुदचन्द्र भाग-१,पृ० ४८-४९ पादटिप्पण- ३३१
ननु ‘पश्यामि' इत्येवम्भूतो विकल्प एवाध्यक्षस्य व्यापारः, तत्कथं निर्व्यापारता? इत्यप्यसुन्दरम्, तद्व्यवसायात्मकत्वप्रसङ्गात् । न खलु व्यापारः तद्वतो भिन्नो, भवद्भिरङ्गीक्रियते ; तत्स्वभावत्वात्तस्य । अथ तत् कार्यत्वात् ततो भिन्नोऽसौ, कथं तर्हि तद्व्यापारः? न हि पुत्रः पितुर्व्यापारो भवति । अस्तु वा; तथापि - यदि अविकल्पकाध्यक्षे व्यवसायस्वभावता न स्यात् तदा तत्प्रभवविकल्पेऽपि कुतोऽसौ स्यात् । स हि बोधरूपतया,विलक्षणसामग्रीप्रभवतया वा व्यवसायस्वभावतां स्वीकुर्यात् ? यदि बोधरूपतया; तदाऽसौ प्रत्यक्षेऽप्यस्ति,इति तदपि व्यवसायस्वभावतां स्वीकुर्यात् । तदविशेषेऽपि 'यस्य साक्षादर्थे ग्रहणव्यापारः तन्न निश्चिनोति, यस्य तु तद्व्यापारोपजीवित्वम् असौ निश्चिनोति' इति असेः कोशस्य तीक्ष्णता। विलक्षणसामग्रीप्रभवता च अनयोः भेदे सिद्धे सिद्धयेत्, न च विकल्पव्यतिरेकेण अविकल्पकस्वरूपं स्वप्नेऽपि प्रसिद्धम् । एकमेव हीदं स्वार्थव्यवसायात्मकमिन्द्रियादिसामग्रीतः समुत्पन्नं विज्ञानमनुभूयते,न तत्र स्वरूपभेदः सामग्रीभेदो वा कश्चित् कदाचित् कस्यचित् प्रतिभाति अन्यत्र महामोहाक्रान्तःकरणात् सौगतात् । कथश्चैवं बुद्धिचैतन्ययोर्मेदं प्रतिवर्णयन् सांख्यः प्रतिक्षिप्येत? विकल्पाविकल्पयोरिव अनयोरप्रतिपन्नस्वरूपयोरपि अभ्युपगममात्राद् भेदसिद्धिप्रसङ्गात् । तयोरेकत्वाध्यवसायाद् भेदेनाप्रतिपत्तिरित्यपि उभयत्र समानम्। न्यायकुमुदचन्द्र, भाग-१ पृ० ४९ पादटिप्पण - ३३२
'जात्याद्युल्लेख', कल्पना इत्यप्यविरुद्धम, जात्यादीनां विशेषणविशेष्यभूतानां परमार्थसतां व्यामोहविच्छेदेनावसायस्य कल्पनात्वोपपत्तेः। यदप्युक्तम्-'यद् यदर्थसाक्षात्कारप्रवृत्तं ज्ञानम्' इत्यादि; तत्र कोऽयं विशेषणविशेष्याद्याकारो नाम योऽर्थसाक्षात्करणप्रवृत्ते ज्ञाने प्रतिषियेत्-प्रतिबिम्बम्, उल्लेखो वा? प्रतिबिम्बञ्चेत्, सिद्धसाध्यता, ज्ञाने तत्प्रतिषेधस्य अस्माभिरप्यभ्युपगमात्, सकलज्ञानानां निराकारत्वप्रतिज्ञानात् । अथ उल्लेखः,तन्निषेधोऽनुपपन्नः,प्रमाणस्य यथावस्थिता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org