________________
परिशिष्ट (तृतीय अध्याय)-ख
४१३
प्रत्यक्षम्” (न्यायबिन्दु, १.४) इत्यत्राधान्तग्रहणानर्थक्यप्रसक्तेर्व्यवच्छेद्याभावात् । चन्द्रग्रहणमपि तत्र नास्तीति चेत्, न ; एकत्वाप्रतिपत्तावपि तत्प्रतिभासदर्शनात् । एकस्य द्वित्वविशिष्टतया तस्य ग्रहणान्मरीचिकाजलज्ञानवद् प्रान्तं तदिति चेत्, न...“प्रामाण्यं व्यवहारेण शास्त्रं मोहनिवर्तनम्" (प्रमाणवार्तिक,१.७) इति भवतैवाभिहितत्वात् । न चैकत्रज्ञाने प्रान्तेतररूपपद्वयमयुक्तम्....सर्वप्रमाणव्यवहारलोपः । तत्वबोधविधायिनी, पृ० ५०७-५०८ पादटिप्पण - ३०७ __ यस्य तु मतं दृश्यप्राप्ययोरेकत्वे अविसंवादाभिमानिनः प्रत्यक्षं प्रमाणम् इतरस्य तयोविवेके सत्यनुभूतेऽपि न प्रमाणम् तस्य चन्द्रदर्शने चन्द्रप्राप्त्यभिमानिनः किमिति चन्द्रमात्रे तन्न प्रमाणम् ? विवेकानध्यवसायिनस्तु यदि तदननुभूतेऽप्येकत्वे प्रमाणं तर्हि “यद् यथावभासते तत्तथैव परमार्थसद्व्यवहारावतारि यथा नीलं नीलतयाऽवभासमानं तथैव सद्व्यवहारावतारि अवभासन्ते च क्षणिकतया सर्वेभावाः” इत्यनुमानमसङ्गतं हेतोरसिद्धताप्राप्तेः। तत्त्वबोधविधायिनी, पृ० ५०८ पादटिप्पण, ३०८
अविकल्पकं दर्शनं प्रमाणमिति चेत्,न, सुषुप्तावस्थायां तत्प्रसङ्गात् तत्रापि चैतन्यसद्भावात् अन्यथा प्रबोधावस्थाविज्ञानमनुपादानम् अचेतनोपादानं वा भवेत् ।---न च सुषुप्तावस्थायां विकल्पानुत्पत्तेर्न तत्प्रसङ्गः विकल्पवशात् तादात्म्ये सत्यपि तद्व्यवस्थायां बाह्यार्थेऽपि तत एव तद्व्यवस्थोपपत्तेर्विकल्प एव प्रमाणं भवेत् । तत्त्वबोधविधायिनी, पृ० ५०९ पादटिप्पण - ३१०
यदपि “अभ्यासदशायां दर्शनमेव विकल्पनिरपेक्षं प्रमाणम्” इति तत्र वक्तव्यं क्व तत् प्रमाणम् ? प्राप्ये भाविनि रूपादाविति चेत्, तस्याविषयीकरणे तेनायुक्तम् अन्यथा नीलज्ञानं पीते प्रमाणं स्यात् विषयीकरणे भाविविषयत्वं तस्यैव भवेत् तथा च “वर्तमानावभासि सर्वं प्रत्यक्षम्” इति विरुध्येत । अथ वर्तमानविषयमपि भाविनि प्रवृत्तिविधानात् प्रमाणम्,न; अविषयीकृते प्रवर्तकत्वासंभवात् प्रवर्तकत्वे वा शाब्दमपि सामान्यमात्रविषयं विशेषे प्रवृत्तिं विधास्यतीति न मीमांसकमतप्रतिक्षेपो युक्तः। यदि वा विषयेऽपि कुतश्चिन्निमित्ताद् ज्ञानं प्रवर्तकं तर्हि प्रत्यक्षपृष्ठभाविसामान्यमात्राध्यवसायिविकल्पस्य विशेषे प्रवर्तकत्वं भविष्यतीति न युक्तम्“दृश्यविकल्प्ययोरर्थयोरेकीकरणं तत्र प्रवृत्तिनिमित्तम्” इत्यभिधानात् । तन्न प्राप्ये तत् प्रमाणम् । दृश्यप्राप्ययोरेकत्वे तत् प्रमाणमिति चेत् कुत एतत् ? व्यवहारिणां तत्राविसंवादाभिप्रायात् अविसंवादि च ज्ञानं प्रमाणम् । तदुक्तम् - “प्रमाणमविसंवादि ज्ञानम्, अर्थक्रियास्थितिरविसंवादनम्” इति चेत् ; नेनु तदेकत्वं कस्य विषयः? दर्शनस्येति चेत्, न ; तस्य सामान्यविषयतया सविकल्प
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org