________________
४१२
बौद्ध प्रमाण-मीमांसा की जैनदृष्टि से समीक्षा
पादटिप्पण - ३०३
अथ नानुभवमात्राद् विकल्पप्रभवःअन्यथा निर्णयात्मकानुभववादिनोऽपि विस्तीर्णप्रघट्टकादौ वर्णपदवाक्यादेः सकलस्य निर्णयात्मनाऽध्यक्षेणानुभवात् स्मरणविकल्पानुदयो न भवेत् । अथात्रदर्शनपाटवाभ्यासप्रकरणाद्यपेक्षा तन्त्रापि सा तुल्येति, एतदप्यसत्, यतो दर्शनस्य पाटवं सच्चेतनादौ तद्ग्रहणयोग्यता तत्सामर्थ्य अपाटवं तदग्रहणयोग्यता तच्च दर्शनस्य दृश्यस्य च सांशतायामुपपत्तिमदिति कथं न सविकल्पकता? विकल्पजननाजनने तत्पाटवापाटवे अपि नाभ्युपगमनीये सांशतापत्तिदोषादेव। अथाभ्यासादिसहायं दर्शनं विकल्पमुत्पादयति ; नन्वेमपि यदेव सच्चेतनादौ दर्शनं तदेव चेत्, अन्यत्रोभयत्र विकल्पोत्पत्तिर्भवेत्---न चाभ्यासादिसहायमविकल्पकं कदाचिद् विकल्पमुपजनयद् दृष्टमिति कथं तस्य सहकारिसचिवस्य विकल्पजनकताभ्युपगमः? अथ सच्चेतनादिविकल्पमविकल्पकमुत्पादयद् दृष्टमिति तदभ्युपगमः, स्यादेतत् यदि क्रमभाविहेतुफलभूतमविकल्पसविकल्पकं ज्ञानद्वयमवसीयेत ।न च तदवसीयते सांशैकविकल्पस्वभावस्य सामान्यविशेषात्मकवस्तुमाहिणः प्रथममेवोपजायमानस्यैकस्यैव निश्चयात्।।
यदप्यविकल्पकस्याभ्यासादिसहायविकल्पजनने प्रघट्टकास्मरणं दृष्टान्तत्वेनोपन्यस्तम्, तदप्ययुक्तम् ; यतो वर्णादीनां तज्ज्ञानानां च व्यक्तिभेदाद् दृढसंस्काराण्येव निश्चयात्मकान्यपि ज्ञानानि स्मृतिजनकानि नापराणीति प्रतिनियतविषयस्मृतिसंभवान्न सकलप्रघट्टकास्मरणदोषः अनिश्चयात्मकं तु ज्ञानं क्षणिकत्वादाविव नक्वचिद् विकल्पहेतुर्भवेत् इत्युक्तं प्राक् । न च भवत्पक्षे सच्चेतनादिस्वर्गप्रापणशक्त्यादीनां परस्परं तदनुभवानां च भेदः येनेदमुत्तरं समानं भवेत् । तथाहिसच्चेतनादितत्सामर्थ्ययोरभेदे तदनुभवादेकरूपादुभयत्र संस्कारः स्मरणं वा भवेत् न वा क्वचिदिति अन्यथा अनुभवस्य सांशतापत्तिरिति सविकल्पकत्वं भवेत् ।
-तत्वबोधविधायिनी, पृ० ५०६-५०७ पादटिप्पण - ३०६
एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम्। कोऽन्यो न दृष्टो भागःस्यात् यःप्रमाणैः परीक्ष्यते ॥-प्रमाणवार्तिक,३.४३ नो चेद् प्रान्तिनिमित्तेन संयोज्येत गुणान्तरम्।
शुक्तौ वा रजताकारो रूपसाधर्म्यदर्शनात् ॥-प्रमाणवार्तिक,३.४४ अत्र च तात्पर्यार्थः - यद् यतोऽभिन्न तस्मिन्ननुभूयमाने तदनुभूयते, यथा तस्यैव स्वरूपम् अभिन्नं च सच्चेतनादेश्चेतसः स्वर्गप्रापणसामर्थ्यम् तस्य ततो भेदे सम्बन्धासिद्धेः।- न च तत्सामर्थ्य तच्वेतसोभिन्नमिति तदनुभवे तस्याप्यनुभवः चन्द्रग्रहणेऽपि तदेकत्वाग्रहणतस्तैमिरिकदर्शनेन व्यभिचारात् । तस्यापि प्रहणमिति चेत्, न ; प्रान्तेरभावप्रसङ्गतः “कल्पनापोढमभ्रान्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org