________________
४१४
बौद्ध प्रमाण-मीमांसा की जैनदृष्टि से समीक्षा
कत्वप्रसक्तेः । विकल्पस्येति चेत्, न; अभ्यासदशायां विकल्पस्यानभ्युपगमात् ।
- तत्त्वबोधविधायिनी, पृ० ५१२-५१३
पादटिप्पण - ३१२
यत्तावदुक्तम्-" कल्पनापोढम्" इत्यादि ; तत्र केयं कल्पना- अभिलापवत्प्रतिभासः, निश्चयः, जात्याद्युल्लेखः, अस्पष्टाकारता, अर्थसन्निधिनिरपेक्षता, अनक्षप्रभवता, धर्मान्तरारोपो वा ? -न्यायकुमुदचन्द्र, भाग-१, पृ० ४७
Jain Education International
पादटिप्पण - ३१४
तत्राद्यपक्षोऽयुक्तः, प्रतिभासस्याऽभिलापवत्त्वानुपपत्तेः । तद्धि तत्स्वभावत्वात् तद्धेतुत्वाद्वा स्यात् ? न तावत्तत्स्वभावत्वात्, चेतनाऽचेतनयोः विरुद्धधर्माध्यासतः तादात्म्याऽसंभवात् । ययोविरुद्धधर्माध्यासः न तयोस्तादात्म्यम् यथा जलाऽनलयोः, विरुद्ध धर्माध्यासश्च चेतनाऽचेतनरूपतया शब्द-ज्ञानयोरिति । अतः तत्स्वभावशून्यतया प्रत्यक्षस्याविकल्पकत्वसाधने सिद्धसाधनम् । नापि तद्धेतुत्वात् तद्धि तज्जन्यत्वम्, तज्जनकत्वम्, उभयं वा ? तज्जन्यत्वेन तद्वत्त्वे श्रोत्रज्ञानस्य अविकल्पकत्वं न स्यात् तस्याऽभिलापप्रभवतया तद्वत्त्वप्रसंगात् । तज्जनकत्वात्तद्वत्त्वे, प्रकृतिप्रत्ययादिप्रत्यक्षस्य सविकल्पकत्वं स्यात् । उभयपक्षेऽपि उभयदोषानुषङ्ग:, एकत्रो भयरूपताविरोधश्च । अतः अभिलापवत्प्रतिभासस्य कल्पनालक्षणत्वानुपपत्तेः “यो यत्र शब्दो न निवेशितः” इत्यादि प्रत्याख्यातम् । –न्यायकुमुदचन्द्र भाग-१, पृ० ४७-४८ पादटिप्पण - ३१६
अथ अस्पष्टाकारता विकल्पस्वरूपम्, तच्चास्य विकल्पकत्वादेव सिद्ध्यति ; तथाहि यत् सविकल्पकं ज्ञानं तदस्पष्टं यथा अनुमानम्, तथा चेदं विवादापन्नं ज्ञानम्, इत्यप्यसाम्प्रतम्, निर्विकल्पकत्व-सविकल्पकत्वाभ्यां ज्ञानानां स्पष्टत्वाऽस्पष्टत्वयोरप्रसिद्धेः, स्वसामग्रीविशेषादेव तेषां तत्प्रसिद्धेः । कथमन्यथा प्रत्ययत्वात् प्रत्यक्षमपि अनुमानवदस्पष्टं न स्यात् ? अन्योन्याश्रयश्च; अस्पष्टाकारत्वे हि सिद्धे सविकल्पकत्वसिद्धिः, तत्सिद्धौ च अस्पष्टाकारत्वसिद्धिरिति । किञ्च, अस्य अस्पष्टता विशेषणविशिष्टार्थग्राहित्वात्, एकत्वपरामर्शित्वात्, परोक्षाकारोल्लेखित्वाद्वा स्यात् ? तत्र आद्यपक्षद्वयमयुक्तम्; वस्तुस्वरूपस्य अस्पष्टाहेतुत्वात् । यत् खलु वस्तुस्वरूपं तन्नाऽस्पष्टत्वहेतुः यथा नीलत्वादि, वस्तुस्वरूपश्च विशेषणविशिष्टत्वादिकमिति । परोक्षाकारोल्लेखित्वञ्च यत्रास्ति तत्र अस्पष्टत्वमप्यस्तु, नान्यत्र । न हि सर्वत्र विकल्पः परोक्ष एवार्थे प्रवर्तते; वर्तमाने पुरोवर्तिन्यप्यर्थे स्पष्टाकारोल्लेखमुखेन तत्प्रवृत्तिप्रतीतेः । - न्यायकुमुदचन्द्र भाग - १ पृ० ५०-५१
For Private & Personal Use Only
www.jainelibrary.org