________________
१०
નિર્ચન્થ ઐતિહાસિક લેખ-સમુચ્ચય-૧
હવે દ્વાદશપદ્યયુક્ત સરસ્વતીકલ્પનાં કેટલાંક સુરમ્ય પદ્યો નીચે ઉઠ્ઠકિત કરીશું:
[शार्दूलविक्रीडितम्] कन्दात् कुण्डलिनि ! त्वदीयवपुषो निर्गत्य तन्तुत्विषा किञ्चिच्चुम्बितमम्बुजं शतदलं त्वद्ब्रह्मरन्ध्रादयः । यश्चन्द्रद्युति ! चिन्तयत्यविरतं भूयोऽस्य भूमण्डले तन्मन्ये कवि चक्रवर्तिपदवी छत्रच्छलाद् वल्गति ॥१॥ यस्त्वद्वक्त्रमृगाङ्कमण्डलमिलत्कान्तिप्रतानोच्छलच्चञ्चच्चन्द्रकचक्रचित्रितककुप्कन्याकुलं ! ध्यायति । वाणि ! वाणिविलास भङ्गपदप्रागल्भ्यश्रृङ्गारिणी नृत्यत्युन्मदनर्तकीव सरसं तद्वकारङ्गाङ्गणे ॥२॥ देवि ! त्वद्धतचंद्रकांतकरक श्च्योतसुधानिर्झरस्नानानन्दतरङ्गितः पिबति यः पीयूषधाराधरम् । तारालंकृतचंद्र शक्ति कुहरेणा कण्ठमुत्कण्ठितो वक्त्रेणोद्भिरतीव तं पुनरसौ वाणीविलासच्छलात् ॥३॥ क्षुभ्यत्क्षीरसमुद्रनिर्गतमहाशेषाहिलोलत्फणा - पत्रोनिद्रसितार विन्दकुहरेश्चन्द्रस्फुरत्कर्णिकैः । देवि ! त्वाञ्च निजञ्च पश्यति वपुर्यः कान्ति भिन्नान्तरं ब्राह्मि ! ब्रह्मपदस्य वल्गति वचः प्रागल्भदुग्धाम्बुधेः ॥४॥ पश्येत् स्वां तनुमिन्दुमण्डलगतां त्वां चाभितो मण्डितां यो ब्रह्माण्डकरण्डपिण्डितसुधाडिण्डीरपिण्डैरिव । स्वच्छन्दोद्गत गद्यपद्य लहरी लीलाविलासामृतैः
सानन्दास्तमुपाचरन्ति कवयश्चन्द्रं चकोरा इव ॥७॥ છેલ્લા બારમા પદ્યમાં છંદોભેદ કરેલો છે યથાર્થ :
[मालिनी वृत्तम्] किमिह बहुविकल्पैर्जल्पितैर्यस्य कण्ठे भवतिविमलवृत्तस्थूलमुक्तावलीयम् । भवति भवति ! भाषे ! भव्यभाषाविशेषैमधुरमधुसमृद्धस्तस्य वाचां विलासः ॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org