________________
નિર્ચન્થ ઐતિહાસિક લેખ-સમુચ્ચય-૧
न शास्तृ-शिष्यादि-विधि-व्यवस्था विकल्पबुद्धिर्वितथाऽखिला चेत् । अतत्त्व-तत्त्वादि-विकल्प-मोहे निमज्जतां वीत-विकल्प-धीः का ? ॥१७॥ रागाद्यविद्याऽनल-दीपनं च विमोक्ष-विद्याऽमृत-शासनं च । न भिद्यते संवृति-वादि-वाक्यं भवत्प्रतीपं परमार्थ-शून्यम् ॥२३॥ न रागानः स्तोत्रं भवति भव-पाश-च्छिदि मुनौ न चाऽन्येषु द्वेषादपगुण-कथाऽभ्यास-खलता । किमु न्यायाऽन्याय-प्रकृत-गुणदोषज्ञ-मनसां हिताऽन्वेषोपायस्तव गुण-कथा-सङ्ग-गदितः ॥६४॥ इति स्तुत्यः स्तुत्यैस्त्रिदश-मुनि-मुख्यैः प्रणिहितैः स्तुतः शक्त्याः श्रेयः पदमधिगतस्त्वं जिन ! मया । महावीरो वीरो दुरितपर-सेनाऽभिविजये विधेया मे भक्तिं पथि भवत एवाऽप्रतिनिधौ ॥६५॥
-युक्त्यनुशासन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org