________________
સ્વામી સમતભદ્રનો સમય
૫૫
हलभृच्च ते स्वजनभक्ति
मुदित-हृदयौ जनेश्वरौ । धर्म-विनय-रसिकौ सुतरां ।
चरणारविन्द-युगलं प्रणेमतुः ॥१२६॥ ककुदं भुवः खेचरयोषि
दुषित-शिखरैरलङ्कृतः । मेघ-पटल-परिवीत-तट
स्तव लक्षणानि लिखितानि वज्रिणा ॥१२७॥ वहतीति तीर्थमृषिभिश्च __ सततमभिगम्यतेऽद्य च । प्रीति-वितत-हृदयैः परितो
भृशमूर्जयन्त इति विश्रुतोऽचलः ॥१२८॥ तमाल-नीलैः सधनुस्तडिद्गुणैः
प्रकीर्ण-भीमाऽशनि-वायु-वृष्टिभिः । बलाहकैरि-वशैरुपद्रुतो
महामना यो न चचाल योगतः ॥१३१॥ बृहत्फणा-मण्डल-मण्डपेन
य स्फुरत्तडित्पिङ्ग-रुचोपसर्गिणम् । जुगूह नागो धरणो धराधरं विराग-संध्या-तडिदम्बुदो यथा ॥१३२॥
-बृहत्स्वयम्भूस्तोत्रम् कीर्त्या महत्या भुवि वर्द्धमानं । त्वां वर्द्धमानं स्तुति-गोचरत्वम् । निनीषवः स्मो वयमद्य वीरं विशीर्ण-दोषाऽऽशय-पाश-बन्धम् ॥१॥ भावेषु नित्येषु विकारहानेर्न कारक-व्यापृत-कार्य-युक्तिः । न बन्ध-भोगौ न च तद्विमोक्षः समन्तदोषं मतमन्यदीयम् ॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org