________________
૫૪
નિર્ચન્થ ઐતિહાસિક લેખ-સમુચ્ચય-૧
इति जिन ! सकलज्ञ-लाञ्छनं
वचनमिदं वदतांवरस्य ते ॥११४॥ दुरित-मल-कलङ्कमष्टकं
निरुपम-योग-बलेन-निर्दहन् । अभवदभव-सौख्यवान् भवान् भवतु ममापि भवोपशान्तये ॥११५॥
(उद्गता) भगवानृषिः परम-योग
दहन-हुत-कल्मषेन्धनः । ज्ञान-विपुल-किरणैः सकलं
प्रतिबुध्य बुद्ध-कमलायतेक्षणः ॥१२१॥ हरिवंश-केतुरनवद्य
विनय-दम-तीर्थ-नायकः । शील-जलधिरभवो विभव
स्त्वमरिष्टनेमि-जिनकुञ्जरोऽजरः ॥१२२॥ त्रिदशेन्द्र-मौलि-मणि-रत्न
किरण-विसरोपचुम्बितम् । पाद-युगलममलं भवतो ।
विकसत्कुशेशय-दलाऽरुणोदरम् ॥१२३॥ नख-चन्द्र-रश्मि-कवचाऽति
रुचिर-शिखराऽङ्गुलि-स्थलम् । स्वार्थ-नियत-मनसः सुधियः
प्रणमन्ति मन्त्र-मुखरा महर्षयः ॥१२४॥ द्युतिमद्रथाङ्ग-रवि-बिम्ब
किरण-जटिलांशुमण्डलः । नील-जलद-जल-राशि-वपुः
सह बन्धुभिर्गरुडकेतुरीश्वरः ॥१२५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org