SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ સાગરચંદ્રકૃત ક્રિયાગર્ભિત “ચતુર્વિશતિ જિનસ્તવ' ૨૫૧ (प्रबोधिता छन्दः) मृगनाभिसनाभितां२६ रुचा वपुषस्त्वं यदि सुव्रत ! प्रभो ! । ननु निर्मल निर्मलात्मनामुपमानत्वमुपागतः कथम् ॥२०॥ (पथ्या छन्दः) भवतः क्रमाङ्गलिनखावलीनिर्गतै रजनीश्वरोज्ज्वलतरैः प्रभाजालिकै:२७ । भगवन् ! नमे ! नमनशालिनां मौलिषु २“स्फुटमालतीकुसुममालिकालङ्कृतिः ॥२१॥ (हरिणी वृत्तम्) नियतमिति नो मिथ्यावादाः स्मरं सह २"तृष्णया, यदसि विमुखो राजीमत्यामथापि नृपश्रियाम् । कथमिव ततः स्वामिन् ! नेमे । रतो विरतिः स्त्रियां शिवपदपुरः साम्राज्याप्तौ भृशं च समुत्सुकः ॥२२॥ (शार्दूलविक्रीडितम्) भर्ता भोगभृतां मणिप्रणयवान् यन्मूर्धमार्गेऽशुभद् ध्यानाग्नेः स्खलयन् स्फुलिङ्गशबलं धूमोद्गमाडम्बरम् । स त्वं पार्श्व ! विशुद्धवैभवनिधे ! व्याधूतभूतग्रहग्रामस्थाम सुनामधेय ! भगवन् ! विघ्नौघनिघ्नं जनम् ।।२३।। (स्त्रग्धरा छन्दः) आत्मन्युद्धृतरागे विशदतरलसज्ज्ञानलक्ष्मीर्यदीये यस्मिन् कल्पद्रुरूपे प्रणयमुपगते स्वेषु वेश्माङ्गणेषु । यत्पादाग्रेण मेरु क्षितिधरमधुना देवदेव ! पुमांसो भीतत्राणैकतानं व्यसनशतविनाशाय तं वर्धमानम् ॥२४॥ (शार्दूलविक्रीडितम्) इत्थं तीर्थकृतां ततेस्त्रिभुवनश्रीमौलिलीला स्रजो विद्वान् सागरचन्द्र इत्यभिधया लब्धप्रसिद्धिस्तुतिम् । सर्वाङ्गं परितन्वती सुमनसामानन्दरोमोद्गमं । नानावृत्तनिवेशपेशलतरै युक्तां क्रियागुप्तकैः ॥२५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002105
Book TitleNirgrantha Aetihasik Lekh Samucchaya Part 1
Original Sutra AuthorN/A
AuthorM A Dhaky
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2002
Total Pages378
LanguageGujarati
ClassificationBook_Gujarati & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy