________________
૨૫૦
નિર્ચન્થ ઐતિહાસિક લેખ-સમુચ્ચય-૧
(श्रग्विणी वृत्तम्) स्वामिनः किन्नराणां नराणां च ये स्वर्गिणो ये सुरैश्वर्यभाजश्च ये । प्राप्य सर्वेऽप्यहपूर्विकां सर्वदा ते भवत्पूजने वासुपूज्य ! प्रभो ! ॥१२॥
(गुणमणिनिकरणछन्दः) १५निरुपमपरहितवितरणनिरत !
त्वमसमशमधननिधनविरहित ! । विमल ! विमलप्तमगुणगणविभवैः सकलभुवनतलवदनतिलकताम् ॥१३।।
(स्वागता छन्दः) शीतदीधितिकलारुचिरामा त्वद्गुणावलिरनन्त ! जिनेश ! । यो न कृत्स्त्रजगतामपि "कुक्षौ मादृशां कथमसौ कलनीया ॥१४॥
(रुचिता छन्दः) चिराजिता सुचिरपित्तजन्मना गुरूष्मणा प्रति कलमाकुलीकृताः । गिरं पयो १९मधुरतरां निपीय ते शरीरिणो जिनवर ! धर्म ! निर्वृतिम् ॥१५||
(प्रहर्षिणी वृत्तम् ) संसारे वन इव दुर्गतित्रियामा व्यापारस्खलितदृशां चिरं जनेन । प्रत्यूषे रविमिव सुक्षिणेन (?) वीक्ष्य त्वां शान्ते ! प्रकटित दुर्गमोक्षमार्गम् ॥१६।।
(प्रमिताक्षरा छन्दः) कृतकमनिर्मथन ! कुन्थुजिन ! प्रयतस्त्वमुज्ज्वल तपश्चरणे । अपि सार्वभौम विभवं तृणवनतनैकनाकिजनराजगण ! ॥१७॥
(शालिनी वृत्तम्) क्षान्त्याधार ! ध्वस्तदुर्वारमार ! ज्ञानोदार ! प्राप्तसंसारपार ! । २३मुक्तेदार ! व्यक्तधर्मावतार ! स्वर्णाकार ! प्राणिजातं जिनार ॥१८॥
(वैश्वदेवी वृत्तम्) २४गीर्वाणश्रेणिमुक्तमन्दारमाला
स्रस्तं किञ्जल्कं सर्वतो विस्फुरन्तम् । एतस्मिन्त्रीले मल्लिनाथ ! त्वदङ्गे
प्रात५स्सं भानो?मनीव प्रकाशम् ।।१९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org