________________
કુમુદચંદ્રાચાર્ય પ્રણીત “ચિકર દ્વાત્રિશિકા'
૨૪૩
कषोत्तीर्णस्वर्णत्विषि वपुषि सैषा सुखयुताज्जगन्ति प्रेङ्कुन्ती तव चिकुरलेखा जिनवृष ! । गिरेः शृङ्गेत्तुङ्गे बहुलविलसत्गैरिकरसेशयालु रंध्रा नवमुदिरमालेव मधुरा ॥२१॥ जगन्नेतर्नेता हरिहरिहरिकेशकणिकाभवत्कंठक्रोडान्तिकविसृमराः किं पुनरमी । परीरं भारंभाद्भुतरभसन्मुक्तितरुणीभुजामालोद्वेल्लमणिगणरणत्कङ्कणकिणाः ॥२२॥ ध्रुवं कर्मक्लेशावलिनिखिलदन्ताब (व) लबलच्छिदाऽलंकीणस्त्वमसि जिनगन्धेभकलभ !। कपोलान्ते लोलाविरलविगलद्दानसलिलछटाछायां धत्ते भ्रमरहरिणी येन कबरी ॥२३॥ मुमुक्षोस्ते दीक्षोपगमसमये कुंतलततिलुंलन्तीयं कार्तस्वरमयभुजस्तम्भशिरसि । प्रवेशे तत्कालं प्रसृमर मनःपर्यवविदोमुदामाङ्गल्यस्त्रग्दलवलयलीलां कलयति ॥२४॥ मुमुक्षो निक्षिप्य स्वतनुकनकं दुस्तपतपोऽनले ज्वालाश्रयिणि नियतं शोधितमिदम् ।। तवांसे येनेश ! स्फुटति कबरीवल्लरिनिभाद्विभात्युच्चैरेषा गलितमलकालुष्यपटली ॥२५॥ उदञ्चद्ब्रह्मद्वाः सदनवलभी केवलविदोऽधिरोढुं विभ्राणा हरितमणिनिश्रेणिकरणिम् । त्रिलोकं सल्लोकंप्रि (पृणंमसृणकेशांकुरवनीपुनीतां शीतांशुद्युतिविततिसर्वंकषमुखाः ॥२६॥ हतक्लेशाः केशाः कुलकरकुलीनांऽसलुलितास्तवोन्मीलन्नीलांबुरुहसुभगं भावुकविभाः । दधुर्नीलोत्फुल्लद्धदनकमलार्हन्त्यकमलाविलासार्थं दोलायुगललतिका-रज्जुतुलनाम् ॥२७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org