________________
२४४
Jain Education International
નિર્પ્રન્થ ઐતિહાસિક લેખ-સમુચ્ચય-૧
जगद्रोहो मोहः स खलु विषमेषुः खलतमो महायोधः क्रोधः समितिसममेते बत जिता । तथाप्यावां नाथः कथमपि दृशा नेक्षत इतित्वदीयांसौ कार्यं विमद ! दधतु स्तौ कचमिषात् ॥२८॥
त्रिलोकीकल्पद्रो ! किल युगलधर्मव्यतिगमेधराकल्पाः कल्पावनिजनिवहा वैभवजिताः । त्वया तत्कालं ये समदमुदमूल्यन्त विकटाजटाजाली तेषां परिणमति केशावलि तदा ॥ २९ ॥
मुमुक्षूणां तादृक् शमरसकृते ध्यानविवरम्विविक्षूणां क्षीणांतरतमतमः पुस्तकमसि । महार्थंकल्पस्य ध्रुवमय विकल्पस्य यदिमाजिनेन्दो ! दीप्यन्ते किमपि लिपयः केशकपटात् ॥३०॥
तवाबन्धस्कन्धस्थलविलुलिता लुम्पतु सतामतान्तं लिम्पन्ती भृशममृतपङ्खैरिव दृशः । युगादिश्रीतीर्थंकर चिकुरलेखा नवयवांकुराली कर्णान्ते नियतमवतंसाय रचिता ॥ ३१ ॥ इति श्रीनाभेयस्तवलवमिदं यस्तवनवंसुधासद्रीचीभिर्विमलयगिरिशृङ्गारमुकुट ! । ब्रुवाणो वाणीभिस्त्वयि लयमयीमंचति कलांस एव श्रीदेवो जनकुमुदचन्द्रः कविरविः ॥३२॥ इतिश्री चिकुरद्वात्रिंशिका पूर्णा ।
For Private & Personal Use Only
www.jainelibrary.org