________________
૨૪૨
નિર્ચન્થ ઐતિહાસિક લેખ-સમુચ્ચય-૧
ध्रुवं देवोद्दधे विष( य )मयजंबालकलिलात्त्रिलोकी कारुण्यात्कलिकलुषकूलंकषमुखम् । वृषस्कन्धोत्तंसप्रवरकबरीमञ्जरिमिषाद्विलग्ना येनेयं भुजशिखरयोः पङ्ककणिका ॥१४॥ अमन्दम्भिन्दाने भृशतमम विद्यांधतमसंशुचिब्रह्मज्योतिर्बत नियतमन्तः स्फुरति ते । शिरोजालीव्याजाद्यदमुकुलनीलोत्पलदलप्रभाचौरी चञ्चत्युपरि परितो धूमलतिका ॥१५॥ स्वयंबोधो बोधामृतरसभृतः पूर्णकलशस्त्रिलोकीमाङ्गल्यस्त्वमसि कपिशः काञ्चनरुचा । कृतोत्कण्ठे कण्ठे लुठति यदियं कुन्तलमयी लसद्लक्ष्मी लीलालयकुवलयस्मेरवलयी ॥१६॥ अविद्यामूर्छाल-त्रिभुवनजनोज्जीवन ! जिन ! स्फुरशुक्लध्यानामृतलहरिपूर्ण ध्रुवमसि । अखण्डं त्वं कुण्डं यदमलमिलत्कुन्तलमिषादुपान्तं नोमुञ्चत्युरगनिकरा यामिकवराः ॥१७॥ प्रभाभिर्दिक्कुक्षिभरिभिरुदयी कल्मषमुषोमुखेन्दुर्नद्यात् ते त्रिभुवनसुधापारणमहः । कुहूः सूचीभेद्यांधतमसमयी संगमसुखान्यवाप्तुं तत्पूर्वं यमिव समुपास्ते कचमिषात् ॥१८॥ अतान्तस्तत्त्वोनमदसुमतां वाङ्मनसयो:समन्तादस्ताघः समरसमहानीरधिरसी । वितेने तेनेयं ननु चिकुरवल्ली विकसतातताभीसुवेलावनघनतमालावनिरुहः ॥१९॥ त्रिलोकीमाध्यस्थं दधदधिकमाकालमचल:सुमेरुस्त्वं स्वामिन्विकचरुचिकल्याणरुचिरः । भुजाशृङ्गोत्संङ्गे चिकुरनिभतो नन्दनवनीविनीला यहत्ते हदि मुदमुदनां सुमनसाम् ॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org