________________
२४०
નિર્ચન્થ ઐતિહાસિક લેખ-સમુચ્ચય-૧૧
श्री कुमुदचन्द्राचार्य कृताः श्री आदिनाथ स्तुति अपरनामा श्री चिकुरद्वात्रिंशिका
(शिखरिणी छन्द) मुदेवस्ताद्देवस्त्रिदिवयुवतीमौलिवलभीविटङ्कप्रक्रीडन्मुकुटपटलीलालितपदः । स चिंतामाणिक्यामरसुरभिकल्पावनिरु हांसनाभिर्नोभेयस्त्रिभुवनवनीजीवनघनः ॥१॥ गलद्गर्वग्रन्थिः प्रथमजिननाथस्तुतिपथेन पांथीभूयन्ते धिषणधिषणाऽपि प्रथयति । ममायं विस्फायत्तरणि किरणश्रेणिसरणेतदेवं हेवाको वियतिनियतं वल्गनमयः ॥२॥ स्फुरत्बाल्यावस्थासुलभविभवाच्चापल-कलाविलास-व्यासंग-व्यसनरसतः किं नु नटितः । इमां बालां बुद्धि तव नव नवक्रीडनलवै स्तदिक्ष्वाकुश्रीणां रमण ! रमयिष्यामि. किमपि ॥३॥ उदञ्चत्पौलोमी हृदयदयित-प्रार्थन-कथाप्रथाबीजं स्कन्धद्वयसुचरितश्रीपरिणते । त्रिलोकीनेत्राणाममृतमयसिद्धाञ्जनमियंकवीनां सन्नीवीवरदकबरी ते विजयते ॥४॥ त्वदीयाङ्गे रङ्गत्कनककणिकाकान्ति-कपिशेजगद्वन्धोस्कन्धद्वयशिखरभित्तौकचलता । युगादौ सद्धर्मप्रथनभवने दोषहुतयेदधौ नीलीनीलाञ्जनमयनवस्थासककलाम् ॥५॥ बभौ नाभिक्षोणीधवभव ! भवत्केशकुरलीनिलीना पीनांसस्थलफलकयोः कज्जलकला । गृहीतेवोन्माद्यन्मदमदनसंरंभकदनाभुजाभ्यां मायूरीस्फुटमुपरितश्छत्रयुगली ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org