________________
૨૩)
નિર્ચન્થ ઐતિહાસિક લેખ-સમુચ્ચય-૧
मोढेरपुर निवासी ब्रह्मोपपदेन शान्तिनारचितः । स्वयमेव सप्तहस्त:२२ श्रीवीरजिनेश्वरो जयति ॥१३॥ श्रीवलभीपुरनिर्गत रथाधिरूढो२३ जिनो महावीरः । अश्वयुजिपूर्णिमास्यां श्रीमालपुरस्थितो जयति ॥१४॥ (उदधिजलमध्यलब्धं प्रवहणमानीतमतिशयसुरम्यम् । वटपद्रकनगरस्थं जिनविंबं नौमि रत्नमयम् ||*) जयतिसदतिशययुक्त स्तम्भनक निकेतनो जिनःपार्श्वः । पायात् प्रतिकृतिपूज्यो२४ मुण्डस्थल संस्थितो वीरः ॥१५॥ (अमरन विनतचरणाः सकलाधिव्याधिदुरितशत हरणा । स्तंभनकपुरवरस्थो श्रीपार्श्वजिनेश्वरो जयति ॥)* नमिविनमिकुलान्वयभिविद्याधरनाथ कालिकाचार्यैः । काशहृदाख्येनगरे५ प्रतिष्ठितो२६ जयति जिनवृषभः ॥१६।। पाण्डवमात्राकुन्त्या संजाते श्रीयुधिष्ठिरे पुत्रे । श्रीचन्द्रप्रभनाथः प्रतिष्ठितो२७ जयति नाशिक्ये ||१७|| नागेन्द्र-चन्द्र-निर्वृत्ति-विद्याधर सकलसङ्घमुख्येन । सोपारक प्रतिष्ठितो युगादिजिनपुङ्गवो जयति ॥१८॥ विमलनरेन्द्रकृतस्तुतिऋषभोऽर्बुदनगविशेषको जयति । जयतीह जगति शान्तिः श्रीगोकुलवासि कृतपूजः ॥१९॥ (अर्बुदशिखरे रम्ये श्रीऋषभजिनेश्वररम्य प्रतिबिम्बम् । विमलेन विमलमतिना जयति कृतं त्रिदशकृतपूजम् ॥). (श्रीजाबाल[लि]पुर स्थितकाञ्चनगिरिशिखरशीर्षमाणिक्यम् । सकलकलिकालेऽपि श्रीपार्श्वजिनेश्वरो जयति ।।)* कलिकुण्डकुक्कुटेश्वरः चम्पा-श्रावस्ति -गजपुरायोध्या:३२ । वैभारगिरि-पावा-जयन्ति पुण्यानि तीर्थानि ॥२०॥ ॐकारनगर५-वायट-जाल्योधर-चित्रकूट-सत्यपुरे । ब्रह्माण-पल्लिकादिषु ऋषभादिजिना जयन्त्यनघा:३९ ॥२१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org