________________
સંગમસૂરિષ્કૃત સંસ્કૃતભાષાબદ્ધ ‘ચૈત્યપરિપાટીસ્તવ’
Jain Education International
श्रीसङ्गमसूरिकृतम् श्रीचैत्यपरिपाटीस्तवनम्
(आर्यावृत्तम्)
पञ्चानुत्तरशरणा ग्रैवेयककल्पतल्पगत सदनाः । ज्योतिष्कव्यन्तर भवनवासिनी जयति जिनपराजी ॥१॥ वैताढ्यकुलाचल' नागदन्तवक्षारकूटशिखरेषु । हृद - कुण्ड - वर्ष - सागर - नदीषु जयताज्जिनवराली ॥२॥ इषुकारमानुषोत्तरनन्दीश्वररु चककुण्डल' नगेषु । सिद्धालयेषु जीयाज्जिनपद्धतिरिद्धतत्त्वासौ ॥३॥
यत्र बहुकोटिसङ्ख्याः सिद्धिमगुः पुण्डरीकमुख्यजिनाः । तीर्थानामादिपदं स जयति शत्रुञ्जयगिरीशः ||४|| अष्टापदाद्रिशिखरे निजनिजसंस्थानमानवर्णधराः । भरतेश्वरनृपरचिताः सद्रत्नमया" जयन्तु जिनाः ||५|| विंशत्यातीर्थकरैरजिताद्यैर्यत् शिवपदं प्राप्तम् । देवकृतस्तूपगण: स जयति सम्मेतगिरिराजः १२ ॥६॥ ऋषभजिनपदस्थाने बाहुबलिविनिर्मितं सहस्त्रारं । रत्नमयधर्मचक्रं तक्षशिला पुरवरे जयति ॥७॥ मधुरापुरी" प्रतिष्ठः सुपार्श्वजिनः कालसम्भवो जयति । अद्यापि सुराभ्यर्च्यः श्रीदेव"विनिर्मितस्तूपः ॥८॥ ब्रह्मेन्द्रदशानन रामचन्द्रमुख्यैः प्रपूजितो १६ जयति । अंगदिकानगरस्थे जिनबिम्बे दिव्यरत्नमये ||९||
यस्तिष्ठति वरवेश्मनि ९७ सार्द्धाभिर्द्रविणकोटिभिस्तिसृभिः । निर्मापितोऽ (S )मराज्ञा गोपगिरौ " जयति जिनवीरः ||१०||
हरिवंशभूषणमणिर्भृगुकच्छे नर्मदासरित्तीरे" । श्रीशकुनिकाविहारे मुनिसुव्रतजिनपतिर्जयति ॥११॥
नेमेः कल्याणकत्रिकम भवन्निष्क्रमणममरमुख्यकृतं । यस्मिन्नसौ महात्मारैवतकमहागिरिर्जयति ||१२||
For Private & Personal Use Only
૨૨૯
www.jainelibrary.org