________________
૧૬૦
Jain Education International
पादौ तवाऽऽसाद्य गुरो ! क्षमाभृतां विश्वं मनो मे न तृणाय मन्यते । उत्तुङ्गधात्रीघरशृङ्गसङ्गतः सर्वं हि खर्वं मनुतेतरां न कः ? ॥८॥ लोकोत्तरः कोऽप्यसि देवदेव ! तत् कस्ते महिम्नः कलने प्रगल्भताम् । को वा दवीयः स्थमहामहीधरोत्सेधं परिच्छेत्तुमतुच्छसाहसः ||२०||
स्वर्णक्षोणीधरवरशिरः शेखर ! श्रीजिनेश ! व्यक्तं सेयं परमहिमता काचिदुज्जृम्भते वः । पुंसां पादास्थितिसमुचिता यत्तडागापगाम्भःसम्भाराणां परमहिमता स्यादनुद्वेगहेतुः ||२१||
નિર્પ્રન્થ ઐતિહાસિક લેખ-સમુચ્ચય-૧
— दृष्टान्तगर्भस्तुतिद्वात्रिंशिका
- प्रसादद्वात्रिंशिका
एकातपत्रामिव शासनस्य लक्ष्मीं दधानः फणभृत्फणामिः । आरुढ 'जाबालि 'पुराद्रिहस्ती श्रियेऽस्तु वः पार्श्वजिनाधिराजः || १ || महीभृतोऽमुष्य महाप्रभावः प्रासादवर्यस्तिलकीभवंस्ते नेत्रातिगे मेरुगिरौ व्यनक्ति युक्तं सुवर्णाचलराजलक्ष्मीम् ||३|| द्युलोकलक्ष्मीप्रणयं परत्र कल्याणमत्रापि च दातुकामः । शङ्के प्रभोऽभ्रंलिहचारुचूलं चामीकरक्ष्माधरमध्यरोहः ||६|| जिनाधिनाथ ! प्रतिमा यथा ते कल्याणजन्माकरतां दधाति । चामीकराद्रिप्रतिमस्तथैष मन्येऽस्ति जाबालिपुराचलोऽपि ॥११॥
श्रीअश्वसेनक्षितिभृत्कुमार ! सुवर्णधात्रीधरमौलिरत्न ! | अमोघवाचस्तव पार्थिवत्त्वं सम्प्रत्यनन्यप्रतिमं चकारित ॥ १३ ॥ -भक्त्यतिशयद्वात्रिंशिका
सुवर्णशैलः किल नायमत्र ते जिनेन्द्र ! नैतद् भवनं च निर्मलम् । असौ कुमारक्षितिभृद्शोङ्कुरः शुभैककन्दाद्भु(दु) दगादपि त्वतः ॥१२॥ - अपह्नुतिद्वात्रिंशिका
येन काञ्चनगिरौ विनिर्ममे शासनोन्नतिवधूकरग्रहः युक्तमेतदथवा कुमारतां बिभ्रतां खलु भुजङ्गसङ्गिनाम् ॥४॥ यः स्वयं दधदनश्चरात्मतामिष्टसिद्धिघटनामिषुः सताम् । अध्युवास कनकाद्रिचूलिकां शैलवासरतयो हि योगिनः ॥ १८ ॥
For Private & Personal Use Only
www.jainelibrary.org