SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ (ग) तत्राऽन्तर्मुहूर्तशेष आयुष्यायोजिका करणं करोति, अयम्भावः सर्वोऽपि केवलि भगवन् जघन्यतोऽन्तर्मुहूर्तकालमुत्कृष्टतश्च देशोनपूर्वकोटिवर्ष प्रमाणं कालं विहृत्य स्वायुष्यन्तर्मुहूर्तमात्रे शेष अन्तमौर्हर्तिकमायोजिकाकरणमुदयावलिकायां कर्मपुद्गल निक्षेपव्यापाररूपमुदीरणा-विशेषात्मकमारभते। इयमत्र व्युत्पत्ति आमर्यादया योजनं केवलिदृष्ट्या शुभानां योगानां व्यापार इत्यायोजिका 'भावे' (सिद्ध हेम. ५-३-१२२) सूत्रेण भावे णक प्रत्ययः, आयोजिकायाः करणमित्या- योजिकाकरणम्। अथवाऽन्ये प्राहुः - स्वायुष्यन्तर्मुहूर्तशेषे केवली भगवन् आवश्यक-करणं करोतीति।....। उच्यते - अवश्यं भावः - आवश्यकम् । 'चोरादेः' (सिद्ध हेम. ७-१-७३ (इति सूत्रेण भावे अकंप्रत्ययः, आवश्यकेन = अवश्यं भावेन करणमित्यावश्यककरणम्, यथा लोके साटकेन कक्षा बद्ध्वा ततः परं कृतावश्यक कक्षाबन्धकरणो योद्धमुपक्रमते तथा अन्तर्मुहूर्तायुः शेषेण सर्व केवलिना सिध्यता प्रथममेवेदं करणमवश्यं कर्तव्यमित्यावश्यककरणम्। 'अवश्य करणं वा' वा शब्दो मतान्तरद्योतकः एवमग्रेऽपि, अथवैके भणन्ति - सयोगीकेवली भगवानन्तर्मुहूर्तप्रमाण आयुषि शेषेऽवश्यकरणं करोतीति, सर्वकवलिभिः सिद्धयद्विरवश्यंक्रियमाणत्वादवश्यकरणमिति व्यपदिश्यते, अवश्यं क्रियत इत्यवश्यकरणमिति व्युत्पत्तेः। 'आवर्जितकरणं तत्र 'वा' अथवा परे भणन्ति 'आवर्जितकरणं' करोतीति। नन्वावर्जितकरणं कुतो व्यपदिश्यते? इति चेत् उच्यते -आवर्जितस्य = तथा भव्यत्वेन मोक्ष गमनं प्रत्यभिमुखीकृतस्य करणं = शुभ योग व्यापारणमित्यावर्जितकरणम्। 'आवर्जीकरणम्' काकाक्षिगोलकन्यायेन वा शब्दोऽत्राऽऽपि सम्बध्यते, वा = अथवा विशेषावश्यकभाष्यकारादयो हरिभद्रसूरि-पादादयश्च भणन्ति - केवली भगवानन्तर्मुहूर्तमात्रआयुविशेषे आवर्जी-करणं करोतीति। खवगसेढी, स्वोपज्ञवृत्ति (श्रीमद्विजयप्रेमसूरीश्वर) पृ. ४४८-४४९ ननु समुद्घात इति कः शब्दार्थः? इति चेत्, उच्यते-सम्यक् = अपुनर्भावेन उत् = प्राबल्येन घातो = वेदनीयादीनां कर्मणा हननं = विनाशो यस्मिन् प्रयत्नविशेष, स समुद्घात इत्युच्यते, अथ व्युत्पत्यन्तरं दयते - सं = सामस्त्येन ठत् = प्राबल्येन घातो = हननं = शरीराद् बहिर्जीवप्रदेशानां निस्सारणमिति समुद्घातः, खवगसेढी पृ. ४५२ जैन साधना का स्वरूप और उसमें ध्यान का महत्त्व १३७ ४४० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy