________________
सामान्य श्रुतधर काल खंड २ ]
[ ८१६ इन्द्रादिधरणेन्द्रान्तं लोकपालाधिष्ठितं कुम्भदशकं ततो खण्डधारया भंगारेण सह कुम्भमाभ्राम्य भो भोः शक्र यथा स्वस्यां दिशि विघ्नप्रशान्तये सावधानेन स्नानान्तं यावद्भवितव्यमिति ।
___ अनेन क्रमेण लोकपालान् सम्बोध्य । ततः स्नानमण्डपं दुग्धदधिसर्पिश्चन्दनं कुकुमं सुमनसो धूपं तथा रत्नानि मृत्तिकाः कषायादिकं प्रतिष्ठोपयोगकारकवातं. तथा रत्न-फलसस्यौषधीअष्टवर्गादिसंज्ञकान् कुम्भान्विन्यस्य अस्त्रप्रोक्षितान् कवचावगुण्ठितान् स्वसंज्ञाभिरभ्यर्च्य क्षीरदधिसपिरिक्षुसमुद्ररूपान् परिकल्प्यः बहिरन्यानपि कुम्भान् संस्थाप्य लोकपालायुधांकितं शिलानवकं पंचकं वा तासु. कलशोपेतं समानीय स्नानमुपक्रमेत् ।
सप्तधान्येन रत्नसमूहेनमद्भिः कषायवर्गेण मूलिकाभिरष्टवर्गेणोदकान्तरचन्दनेन तीर्थाम्भोभिः पंचगव्यादिना संस्नाप्य रक्तवस्त्रैराच्छाद्य मण्डपं प्रदक्षिणीकृत्य पाश्चात्यद्वारेण प्रवेश्य वेदिकायां संस्थाप्य अधिवासनामन्त्रेणाधिवास्य पुष्पवासधूपादिभिः सम्पूज्य मुद्रान्यासं कृत्वा धर्माभिजप्तवाससा संच्छाद्य नैवेद्यं दत्वा अर्हदादीनि पंचतत्वानि विन्यस्यक्ष्माप्तेजोवाताकाशगन्धरसरूपस्पर्शशब्दोपस्थपायुपादपाणिवाक्नासिका जिह्वाचक्षुस्त्वक्श्रोत्रमनोऽहंकारबुद्धय इति निष्ठुरया संनिरोध्य शिलां पूजयेत् । पूर्वादिशिलासु च तत्वानि सर्वाणि विन्यस्य निरोध्य पूजयेत् ।।
__अथ शिलाकुम्भनामानि-नन्दाभद्रा जया रिक्ता चेति हस्तप्रमाणा अष्टांगुलोड्रिताः स्वस्तिकाङ्किताः शैलमये शैलमया: इष्टिकामये तन्मयाः पद्ममहापद्म-शंख-मरकत-समुद्राख्याः कुम्भा इति पंच-मूर्तिपक्षः । नवपक्षे तु सुभद्र-विभद्र-सुदन्त--जय-विजय--पूर्व-उत्तर-संज्ञकाः शिलाः । सुनन्दा भद्रा जया पूर्णा अजिता विजया मंगला धरणीसंज्ञकाः मध्यस्था ब्रह्मरूपिणीति ।
ततः शिलां कुम्भांश्चादाय प्रासादस्थानमागत्य गर्तासु ॐ अहं जिनाय नमः इति मध्यम गर्तायां कुम्भं विन्यस्य लग्नकाले सिद्धशक्ति विन्यस्य संचिन्त्य ॐ ह्रां जिनाय स्वाहेति मन्त्रमुच्चार्य नमस्कारेण शिलां निवेशयेत् ।
ततः पूर्वादिगर्तासु सिद्धानां शक्ति विन्यस्य तदनन्तरं। ॐ लू इन्द्राय नमः । ॐ रू अग्नये नमः । ॐ सू यमाय नमः ॐ धूं नैऋतये नमः । ॐ वू वरुणाय नमः । ॐ गं वायवे नमः । ॐ यूं कुबेराय नमः । ॐ हूं ईशानाय नमः । ॐ नागाय नमः । ॐ ब्रह्मणे नमः इति लोकेशमन्त्रैस्ताम्रमयकुम्भान् घृतमधुपूरितान् कृतस्रक्सूत्रकण्ठान् विन्यस्य तेषामुपरि शिलाः संस्थाप्य धर्मादिचतुष्कं अधर्मादिचतुष्कं च शिलानामधिष्ठायकत्वेन विन्यस्य विशेषतः पूजां विधाय ततः संघादिकं पूजयेदिति ।
पादकास्ते तु संकल्पाः, प्रासादस्य तु देशिकैः । सिद्धशक्ति तु संयोज्य, व्योमप्रासादमध्यगाम् ।।
इति पादप्रतिष्ठा प्रथमा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org