SearchBrowseAboutContactDonate
Page Preview
Page 837
Loading...
Download File
Download File
Page Text
________________ ८१८ ] [ जैन धर्म का मौलिक इतिहास-भाग ४ कृतकर्मा निराकुल इति १ । इन्द्रोऽपि विशिष्टजातिकुलान्वितो युवा कान्तशरीरः कृतज्ञोरूपलावण्यादिगुणाधार सकलजननयनानन्दकारी सर्वलक्षणोपेतो देवतागुरुभक्तः सम्यक्रनालंकृतः व्यसनासंगपराङ्मुखः शीलवान् पंचाणुव्रतादिगुणयुतो गम्भीरः सितदुकूलपरिधानः कृतचन्दनांगरागो मालतीरचितशेखरः कनककुण्डलादिभूषितशरीरस्तारहार विराजितवक्षस्थलः स्थपतिगुणान्वितश्चेति २। सूरिश्चार्यदेशसमुत्पन्नःक्षीणप्रायकर्ममलो ब्रह्मचर्यादिगुणगणालंकृतः पंचविधाचारयुतो राजादीनामद्रोहकारी श्रुताध्ययनसम्पन्नः तत्वज्ञो भूमिगृहवास्तुलक्षणानां ज्ञाता दीक्षाकर्मणि प्रवीणो निपुणः सूत्रपातादिविज्ञाने स्रष्टा सर्वतोभद्रादि मण्डलानामसमः प्रभावे आलस्यवजितः प्रियंवदो दीनानाथवत्सलः सरलस्वभावो वा सर्वगुणान्वितश्चेति । स च षष्ठाष्टमादितपोविशेषं विधाय कारापकानूकले लग्ने हस्तादारभ्य नवहस्तान्तानां प्रतिमानामाद्यासु तिसृषु अष्टनवदशहस्तं इतरासु चतुर्हस्तादि-प्रतिमासु हस्तद्वयवृद्ध या, यद्वा एकहस्तादिक्रमेणैव द्वादशद्विहस्तवृद्ध या प्रागेव मण्डप प्रासादस्याग्रतः कारयित्वा तस्य प्राच्यामीशान्यां वा स्नानमण्डपमधिवासनामण्डपार्धन निवेश्य लघुप्रतिमासु पंचषट्सप्तहस्तानि तोरणानि इतरासु च वसुवेदांगुलाग्रणि न्यग्रोधोदुम्बराश्वत्थप्लक्षद्रुमसमुद्भवानि पूर्वादारभ्य शान्तिभूतिबलारोग्यसंज्ञकानि तोरणान्यस्त्र-शुद्धानि वर्मावगुण्ठितानि प्रणवेन विन्यस्य हृन्मन्त्रैः स्वनामभिरभ्यर्च्य तच्छाखयोर्मेघमहामेघौ कालनीलौ जलाजलौ अचलभूलितौ प्रणवादिस्वाहान्तैः स्वनामभिः सम्पूज्य, ततो द्वारेषु कमलश्वेतइन्द्रप्रायरक्तकृष्णनीलमेघपीतपद्मवर्णाः पताकाश्च दत्वा मध्ये श्वेतचित्रे वा ध्वजे सम्पूज्य पाश्चात्यद्वारेण प्रविशेत् । ततः पश्चिमायां पूर्वाभिमुखो वा मण्डपनिरीक्षणप्रेक्षणताडनाभ्युक्षणावकिरणपूरण समीकरणसेवनाकुट्टनसन्मार्जनोपलेपनाचक्रीकरणान्तैः कर्मभिः स्वस्वमन्त्रोपेतैः संस्कृत्य चन्दनच्छटाभिः सम्प्रोक्ष्योज्ज्वलस्वच्छभतान्विचिन्तयन् विनिक्षिप्य पुनस्तान् दर्भकूचिकया समाहृत्य मण्डपस्य मध्ये यवारकोपशोभितां छत्रचामर-भृगारकलशध्वजदर्पणव्यजनसुप्रतीकाष्टमंगलकान्वितां वेदी संस्थाप्य ततो वासुकि-निर्मोकलधुनी प्रत्यग्रवाससी दधानः करांगुलीविन्यस्तकांचनमुद्रिक: प्रकोष्ठदेश-नियोजितकनककंकणः तपसा विशुद्धदेहो वेदिकायामुदङ्मुखमुपविश्य भूतशुद्धि विधाय सकलीककरणार्घपात्रं कृत्वा इन्द्रादीनां कवचं विधाय सत्पुष्पाक्षतगन्धधूप-पक्वान्नमनोहरं सर्वविघ्नशान्तये स्वयमाचार्य इन्द्रादिमूर्तिघरैः सह सर्वासु दिक्षु बलि प्रक्षिप्य क्षेत्राधिप पुष्पधूपाक्षतनैवेद्यदीपादिना सम्पूज्य हस्तौ पादौ च प्रक्षाल्य कृताचमनो वेदिकायामुपविश्य पंचवर्णेन रजसा स्वर्णवाहनायुधालंकृतान् लोकपालान् संलिख्य दधिदूर्वाक्षतादिभिर्वाहनायुधसमन्वितान् सम्पूज्य अनन्तरं मण्डपाबहिः कुमुदांजनचमरपुष्पदन्ताभिघानान् क्षेत्रपालान् पूजयेत् । ततो हेमाद्य कतमं कुम्भमानीय गालिताम्भसा प्रपूर्य संहृतविकारेष्वासनं दत्त्वा तत्र मूर्तिरूप कुम्भं विन्यस्य साङ्गं जिनेशं सम्पूज्य पूर्वद्वारि प्रशान्त शिशिरौ । दक्षिणे पर्जन्या-शोकौ । पश्चिमे भूतसंजीवनामृतौ । उत्तरे धनेशश्रीकुम्भौ सवस्त्रौ स्रक्सूत्रकण्ठौ सहिरण्यौ चूताश्वत्थदलभूषितवक्त्रौ बोजपूरादिफलसहितौ नन्द्यादिद्वाराधिष्ठितौ सम्पूज्य यथाक्रमं स्वस्वदिक्षु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002074
Book TitleJain Dharma ka Maulik Itihas Part 4
Original Sutra AuthorN/A
AuthorHastimal Maharaj
PublisherJain Itihas Samiti Jaipur
Publication Year1995
Total Pages880
LanguageHindi
ClassificationBook_Devnagari & History
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy