________________
८१६ ]
_
[ जैन धर्म का मौलिक इतिहास-भाग ४
लोष्ठः सुदन्तः । ह्रस्वोष्ठः पुष्पदन्तः । मन्थरग्रीवो जयः । शोभनग्रीवो विजयः इति मण्डलस्योत्तरे दुःस्वरं सदशाहतसितवस्त्रच्छन्नं भद्रासनं विन्यस्य तस्मिन् शिष्यं शंखतूर्यवीणावेणुस्वस्तिपुण्याहमंगल-ध्वनिभिः कृतमंगलं पूर्वद्वाराभिमुखं समुपवेश्य जातबीजशरावैश्चित्रमुखैगुणरंजलिकारकै गैरभिन्नपुटकोकाभिनिमृश्य वल्मीकान-पर्वताग्र-नदीतीर-महानदीसंगम-कुश विल्वमूल-चतुष्पथ-दन्तिदन्तगोशृग-एकवृक्षगृहीताभिसृद्भिः प्रथम, तदनु पंचामृतेन, ततो वासचन्दनपंचपल्लवकषायैः सर्वगन्धैश्च संस्नाप्य प्रदक्षिणोपनीतैः पूर्वविन्यस्तकुम्भराचार्यमन्त्रमनुस्मरन्नभिषिचेत् । तत: स्नानवस्त्रं परित्यज्य शुक्ले वाससी परिधाय्याखण्डतण्डुलैः स्नापयेत् । तैश्चप्रवृद्धैः प्रर्वृद्धां, समैः समां, हीनैश्च हीनामुन्नति जानीयात् । तदनु मूलमण्डपवेदिकायां पंचवर्णेन रजसा रत्नकांचनरजतमयप्रारत्रयोपेतं गोपुर-चतुष्कालंकृतं तोरण-ध्वज-पुष्करिणीपुष्प-प्राकारोपशोभितं समवसरणमालिख्य मध्ये च पद्मरागादिभिनिर्मिते मृगाधिपासने चतुर्मुखमष्टप्रातिहार्योपेतं भगवन्तं संस्थाप्य वेदीयवारकवितानकपुष्पगृहादिकं पूर्ववत्कृत्वा शिष्यं तत्रानीय सकलिकां विधाय मन्त्रैरालभ्य. मुक्तपुष्पैः सम्पूज्यालंकारैरलंकृत्याक्षतानाचार्यमन्त्रेणाभिमयानुयोगगणानुज्ञार्थं चैत्यवंदनं श्रुतादिदेवतानां च कायोत्सर्गाणि कृत्वा पंच-नमस्कारपूर्वकं नन्दिसूत्रमावर्तयेत् । शिष्योऽपि मुखवस्त्रिकया स्थगितमुखकमलः शृणुयात् । अनन्तरमाचार्यो भगवत्पादयुगे वासान् प्रक्षिप्य गोमयशालिपुष्पादिचूर्णमयान् संघ भट्टारकस्य वासान् दत्वा एवं ब्रूयात्-"अहमस्य साधोरनुयोगमुक्तलक्षणमनुजानामि क्षमाश्रमणानां हस्तेन द्रव्यगुणपर्यायाख्यांगरूपरेषोऽनुज्ञातः' इत्यत्रान्तरे वन्दित्वा शिष्यः 'संदिशत यूयं किं भणामि' इत्यादि वर्णजातं यथैव सामायिकैः तथात्रैव द्रष्टव्यमिति । तदनुवासक्षेपपूर्वकं प्रदक्षिणात्रयं कारयित्वाऽनुयोगानुज्ञां दद्यात् । तदर्थं कायोत्सर्ग कृत्वा निषद्यायामुपविश्य आत्मनो दक्षिणभागे शिष्यमुपवेश्य लग्नवेलायां कुम्भकयोगेनाचार्यपरम्परागतं पुस्तकादिषु लिखितमाचार्यमन्त्रं निवेदयेत् । ततो गन्धपुष्पाक्षतान्वितं मुष्टित्रयमक्षाणां दत्वा तदनु छत्र-चामर-हस्त्यश्व-शिबिकाराजांगानि योगपट्टका खटिका-पुस्तकाक्षसूत्र-पादुकादिकं च दद्यात् । स्वशाखानुगतं च नाम दत्वा स्वगच्छेन सह द्वादशावर्तवन्दनकं दत्वा गणं समाज्ञां श्रावयेत्"अद्यप्रभृति दीक्षाप्रतिष्ठाव्याख्यादिकं ज्ञात्वा परीक्ष्य च त्वया विधेयम्” इति । ततश्च 'व्याख्यानं कुरु' इत्यनुज्ञातोनन्यादि व्याख्यानं यथाशक्त या करोत्यभिनवाचार्यः । तदनु मूलाचार्यो निषद्यायां समुपविश्य
षट्त्रिंशदुज्ज्वलमहागुणरत्नधुर्यं
रेतत्पदं प्रथितगोतममुख्यपुंभिः । आसेवितं सकलदुःखविमोक्षणाय, निर्वाहणीयमशठं भवतापि नित्यम् ।।१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org