________________
निगृह्य कोपतः कांश्चित् , कांश्चित्तुष्टयाऽनुगृह्य च । प्रतार्यन्ते मृदुधियः, प्रलम्भनपरैः परैः ॥२॥ अप्रसन्नात्कथं प्राप्य, फलमेतदसङ्गतम् । । चिन्तामण्यादयः किं न फलन्त्यपि विचेतनाः .. ॥३॥ वीतराग! सपर्यायास्तवाशापालन परम् । । आशाराद्धा विराद्धा च, शिवाय च भवाय च ॥॥ आकालमियमाज्ञा ते, हेयोपादेयगोचरा। आश्रवः सर्वथा हेय उपादेयश्च संबरः ॥५॥ आश्रवो भवहेतुः स्यात्संवरो मोक्षकारणम् । . इतीयमाहतीमुष्टिरन्यदस्याः प्रपञ्चनम् इत्याज्ञाराधनपरा, अनन्ताः परिनिर्वताः । । निर्वान्ति चान्ये क्वचन निर्वास्यन्ति तथापरे ॥ हित्वा प्रसादनादैन्यमेकयैव त्वदाशया। सर्वथैव विमुच्यन्ते जन्मिनः कर्मपारात् ॥८॥
॥ इत्येकोनविंशतितमप्रकाशः ॥
॥६॥
पादपीठलुठनमूनि, मयि पादरजस्तव । चिरं निवसतां पुण्यपरमाणुकणोपमम् ॥१॥ मदृशौ त्वन्मुखासक्ते, हर्षबाष्पजलोमिभिः । अप्रेक्ष्यप्रेक्षणोद्भूत, क्षणात्क्षालयतां मलम् ॥२॥ त्वत्पुरो लुठनैर्भूयान्मद्भालस्य तपस्विनः । कृतासेव्यप्रणामस्य, प्रायश्चित्तं किणावलिः ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org