SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ૧૭ ज्ञाता तात ! त्वमेवैकस्त्वत्तो नान्यः कृपापरः । नान्यो मत्तः कृपापात्रमेधि यत्कृत्यकर्मठः ॥९॥ ॥ इति षोडशप्रकाशः ॥ 5 स्वकृतं दुष्कृतं गर्हन्, सुकृतं चानुदयन् । नाथ ! त्वच्चरणौ यामि, शरणं शरणोज्झितः ॥१॥ मनोवाक्कायजे पापे, कृतानुमतिकारितैः । मिथ्या मे दुष्कृतं भूयादपुनः क्रिययान्वितम् ॥२॥ यत्कृतं सुकृतं किंचिद्रत्नत्रितयगोचरम् । मार्गमात्रानुसार्यपि ॥३॥ तत्सर्वमनुमन्येऽहं, सर्वेषामहदादीनां यो योऽर्हत्त्वादिको गुणः । अनुमोदयामि तं तं सर्वं तेषां महात्मनाम् ||४|| त्वां त्वत्फलभूतान् सिद्धांस्तवच्छासनरतान्मुनीन् । त्वच्छासनं च शरणं, प्रतिपन्नोऽस्मि भावतः ॥५॥ क्षमयामि सर्वान्सत्त्वान्सर्वे क्षाम्यन्तु ते मयि । मैत्रयस्तु तेषु सर्वेषु, त्वदेकशरणस्य मे ॥६॥ raise नास्ति मे कश्चिन्न चाहमपि कस्यचित् । त्वदङ्घ्रिशरणस्थस्य, मम दैन्यं न किञ्चन ॥७॥ यावन्नाप्नोमि पदवीं, परां त्वदनुभावजाम् । तावन्मयि शरण्यत्वं मा मुञ्चः शरणं श्रिते ॥ ८ ॥ ॥ इति सप्तदशप्रकाशः ॥ 5 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002070
Book TitleVitragstav
Original Sutra AuthorHemchandracharya
AuthorBhagvandas Mehta
PublisherShrimad Rajchandra Ashram
Publication Year1965
Total Pages446
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Devotion, & Worship
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy