________________
अनाहूतसहायस्त्वं, त्वमकारणवत्सलः । अनभ्यर्थितसाधुस्त्वं, त्वमसम्बन्धगन्धवः ॥१॥ अनक्तस्निग्धमनसममृजोज्ज्वलवाक्पथम् । अधौतामलशीलं त्वां, शरण्यं शरणं श्रये ॥२॥ अचण्डवीरवृत्तिना, शमिना शमवर्तिना। त्वया काममकुटयन्त, कुटिलाः कर्मकण्टकाः ॥३॥ अभवाय महेशायागदाय नरकच्छिदे । अराजसाय ब्रह्मणे, कस्मैचिद्भवते नमः ॥४॥ अनुक्षितफलोदयादनिपातगरीयसः। असङ्कल्पितकल्पद्रोस्त्वत्तः फलमवाप्नुयाम् ॥५॥ असङ्गस्य जनेशस्य, निर्ममस्य कृपात्मनः । मध्यस्थस्य जगत्त्रातुरनङ्कस्तेऽस्मि किङ्करः ॥६॥ अगोपिते रत्ननिधाववृते कल्पपादपे।। अचिन्ये चिन्तारत्ने च, त्वय्यात्मायं मयार्पितः ॥७॥ फलानुध्यानवन्ध्योऽहं, फलमात्रतनुर्भवान् ।। प्रसीद यत्कृत्य विधौ, किङ्कर्तव्यजडे मयि ॥४॥
॥ इति त्रयोदशप्रकाशः ॥
मनोवचःकायचेष्टाः, कष्टाः संहृत्य सर्वथा । लथत्वेनैव भवता, मनःशल्यं वियोजितम् ॥१॥ संयतानि न चाक्षाणि, नैवोच्छङ्खलितानि च।। इति सम्यक् प्रतिपदा, त्वयेन्द्रियजयः कृतः ॥२॥ योगस्याष्टाङ्गता नूनं, प्रपञ्चः कथमन्यथा । आबालभावतोप्येष, तव सात्म्यमुपेयिवान् ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org