________________
महीयसामपि महान्महनीयो महात्मनाम् । अहो ! मे स्तुवतः स्वामी, स्तुतेगोचरमागमः ॥८॥
॥ इत्येकादशप्रकाशः ॥
卐
पट्वभ्यासादरैः पूर्व. तथा वैराग्यमाहरः । यथेह जन्मन्याजन्म, तत्सात्मीभावमागमत् ॥१॥ दुःखहेतुषु वैराग्यं, न तथा नाथ ! निस्तुषम् । मोक्षोपायप्रवीणस्य, यथा ते सुखहेतुषु ॥२॥ विवेकशाणैर्वैराग्यशस्त्रं शातं त्वया तथा । यथा मोक्षेऽपि तत्साक्षादकुण्ठितपराक्रमम् ।।३।। यदा मरुन्नरेन्द्रश्रीस्त्वया नाथोपभुज्यते । यत्र तत्र रतिर्नाम, विरक्तत्वं तदापि ते ॥४॥ नित्यं बिरक्तः कामेभ्यो, यदा योग प्रपद्यसे । अलमेभिरिति प्राज्य, तदा वैराग्यमस्ति ते ॥५॥ सुखे दुःखे भवे मोक्षे, यदौदासीन्यमीशिषे । तदा वैराग्यमेवेति, कुत्र नासि विरागवान् ? ॥६॥ दुःखगर्भे मोहगर्भे, वैराग्ये निष्ठिताः परे । शानगर्भ तु वैराग्य, त्वय्येकायनतां गतम् ॥७॥ औदासीन्येऽपि सततं, विश्वविश्वोपकारिणे । नमो वैराग्य निनाय, तायिने परमात्मने ॥८॥
॥ इति द्वादशप्रकाशः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org