SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ वीतराग स्तव यः परात्मा परज्योतिः परमः परमेष्ठिनाम् । आदित्यवर्णं तमसः, परस्तादामनन्ति यम् ॥१॥ सर्वे येनोदमूल्यन्त, समूलाः क्लेशपादपाः । मूर्ध्ना यस्मै नमस्यन्ति, सुरासुरनरेश्वराः ॥२॥ प्रावर्त्तन्त यतो विद्याः, पुरुषार्थप्रसाधिकाः । यस्य ज्ञानं भवद्भाविभूतभावावभासकृत् ॥३॥ यस्मिन् विज्ञानमानन्दं, ब्रह्म चैकात्मतां गतम् । स श्रद्धेयः स च ध्येयः, प्रपद्ये शरणं च तम् ॥४॥ तेन स्यां नाथवाँस्तस्मै, स्पृहयेयं समाहितः । ततः कृतार्थो भूयासं, भवेयं तस्य किङ्करः ||५|| तत्र स्तोत्रेण कुर्यां च पवित्रां स्वां सरस्वतीम् । इदं हि भवकान्तारे, जन्मिनां जन्मनः फलम् ॥६॥ क्वाहं पशोरपि पशुर्वीतरागस्तवः क्व च ? ! उत्तितीर्षुररण्यानीं, पद्भयां पगुरिवास्म्यतः ॥७॥ तथापि श्रद्धामुग्धोऽहं नोपलभ्यः स्खलन्नपि । विशृंखलापि वाग्वृत्तिः श्रद्दधानस्य शोभते ॥८॥ श्री हेमचन्द्रप्रभवाद्वीतरागस्तवादितः । कुमारपाल भूपालः, प्राप्नोतु फलमीप्सितम् ॥॥ " ॥ इति प्रथम प्रकाशः ॥ 卐 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002070
Book TitleVitragstav
Original Sutra AuthorHemchandracharya
AuthorBhagvandas Mehta
PublisherShrimad Rajchandra Ashram
Publication Year1965
Total Pages446
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Devotion, & Worship
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy