________________
प्रियङ्गुस्फटिकस्वर्णपद्मरागाञ्जनप्रभः ।
प्रभो ! तवाधौतशुचिः कायः कमिव नाक्षिपेत् ? ॥१॥
मन्दारदामवन्नित्यमवासितसुगन्धिनि |
तवाङ्गे भृङ्गतां यान्ति, नेत्राणि सुरयोषिताम् ॥२॥ दिव्यामृतरसास्वादपोषप्रतिहता इव ।
समाविशन्ति ते नाथ ! नाङ्गे रोगोरगवजाः ॥३॥
त्वय्यादर्शतलालीनप्रतिमाप्रतिरूपके । क्षरत्स्वेदविलीनत्वकथाऽपि
वपुषः कुतः ? ||४||
न केवलं रागमुक्तं, वीतराग ! रक्तमपि,
मनस्तव । क्षीरधारासहोदरम् ||५||
तवान्यद्वक्तुमीश्महे |
वपुः स्थितं जगद्विलक्षणं कि बा, यदविस्रमवीभत्स, शुभ्रं मांसमपि प्रभो ! ॥॥ जलस्थलसमुद्भूताः, संत्यज्य सुमनःस्रजः । निःश्वाससौरभ्यमनुयान्ति मधुव्रताः ॥७॥
लोकोत्तरचमत्कारकरी तव भवस्थितिः । नाहारनीहारौ, गोचरश्चर्मचक्षुषाम् ॥८॥ ॥ इति द्वितीयप्रकाशः ॥
卐
सर्वाभिमुख्यतो नाथ ! तीर्थकृन्नामकर्मजात् । सर्वथा सम्मुखीनस्त्वमानन्दयसि यत्प्रजाः ॥ १ ॥ यद्योजनप्रमाणेऽपि, धर्मदेशनसद्मनि ।
तव
यतो
संमान्ति कोटिशस्तिर्यग्नृदेवाः सपरिच्छदाः ॥२॥ तेषामेव स्वस्वभाषापरिणाममनोहरम् । अप्येकरूपं वचनं, यत्ते
धर्मावबोधकृत् ||३||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org