________________
२९
मोहत्यागाष्टकम् (४)
निर्मलस्फटिकस्येव, सहज रूपमात्मनः ।
अध्यस्तोपाधिसम्बन्धो, जडस्तत्र विमुह्यति ॥६॥ 'निर्मल इति, - निर्मलस्फटिकस्य निर्दोषनिरावरणनिस्संगस्फटिकस्य इव आत्मन:-ज्ञायकद्रव्यस्य सहज-स्वाभाविकं शुद्धं रूपमस्तीत्यनेन वस्तुवृत्त्या आत्मा स्फटिकवत् निर्मल एव-निस्सङ्ग एव, संग्रहनयेन आत्मा परोपाधिसङ्गी एव नास्ति, परमज्ञायकचिदानन्दरूपः अध्यास्तोपाधिसम्बन्धः प्राप्तपुद्गलसंसर्गजकर्मोपाधिसम्बन्धः, अनेकग्लानम्लानावस्थ: जड: वस्तुस्वरूपापरिज्ञानी तत्र उपाधिभावे मुह्यतिएकत्वं प्राप्नोति, यथा-मूर्खः श्यामनीलपीतादिपुष्पसंयोगात् स्फटिकाभेदरीत्या नीलपीतस्वभावं जानाति तथा वस्तुस्वरूपावबोधविकलो जीवो मिथ्यात्वाऽविरतिकषाययोगनिमित्ताद् बद्धैकेन्द्रियादिनामकर्मोदयाद् एकेन्द्रियादिभावमापन्नमेकेन्द्रियादिरूपमेव मन्यते, एकेन्द्रियोऽहम्, विकलोऽहं पञ्चेन्द्रियोऽहम् इति जानाति, परं शुद्धं स्वीयं सच्चिदानन्दरूपं निर्मलं स्वरूपं नावबुद्ध्यतीति मूर्खतापरिणतिः । पुनः४ तत्त्वज्ञः खानिस्थवजं समलं सावरणं समृदपि रत्नपरीक्षकवत् वज्रत्वेन अवधारयति, एवं ज्ञानावरणाद्यावृतम् अतदाकारं ज्ञानज्योतिःप्रकाशविकलमपि आत्मानं पूर्णानन्दं सहजाप्रयासानन्दसंदोहं सर्वशं सर्वतत्त्वस्वरूपाभिन्नमात्मानं सम्यग्ज्ञानबलेन निर्धारयेतीति, इत्यनेन आत्मा शुद्ध एव श्रद्धेयः, उपाधिदोषस्तु सन्नपि तादात्म्याऽभावात् संसर्गजत्वात् भिन्न एव निर्धार्य इति ॥६॥
७मोही जीवः परवस्तु आत्मत्वेन जानन् आरोपजं सुखं सुखत्वेन अनुभवति, भेदज्ञानी तु आरोपजं सुखं दुःखमेवेति निरावरणाय यतते तदुपदिशन्नाह
१. निर्मलमिति S.M., B.1. । २. कल्पित० S.M. । ३. रूप एव V.1., B.2. । ४. एष पाठोऽस्ति L.D.1.1 ५. द्यावरितं B.1.2., V.1.2. । ६. निर्धारयति इत्य० L.D.2. । ७. मोहात् L.D.1. । ८. निवारणाय L.D.1. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org